________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
कर्व्यः पुष्टिकर्त्यः तुष्टिकर्त्यः निर्विघ्नकर्व्यः वरदाः भवत अनेन बलिदानेन सगणेशगौर्यादिमातरः पीयन्ताम् ॥
अथ क्षेत्रपालमहाबलि:-मण्डपाहिः वंशपात्रे सदीपमाषभक्तदध्योदनताम्बूलदक्षिणाकूष्माण्डोदककुम्भयुतं बलिं संस्थाप्य हरिद्राकुङ्कुमसिन्दूरपताकायुतं कृत्वा । हस्तेजळमादाय अद्यपू० सकलारिष्टशान्तिपूर्वकं पारीप्सितस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं क्षेत्रपालाय पूजनपूर्वकं बलिदानं करिष्ये ॥ बलिदानपात्रे पूगीफले क्षेत्रपालमावाहयेत्-नहिस्पशमित्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः क्षेत्रपालोदेवता क्षेत्रपालपूजने बलिदाने च विनियोगः-ॐनहिस्पशमविदन्नन्यमसम्माद्वैश्वानरात्पुरतारमग्ने?॥ एमनमवृधन्नमृताऽअम-- त्यैवैश्वानरक्षेत्रजित्यायदेवा? ॥ ॐभूर्भुवः स्वः क्षेत्रपालायनमः क्षेत्रपालं आवाहयामि स्थापयामि ॥ क्षेत्रपालायनमः इत्यनेन षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य प्रार्थयेत् ॐनमः क्षेत्रपालस्त्वं भूतप्रेतगणैः सह ॥ पूजा बलिं गृहाणेमं सौम्यो भवतु सर्वदा ॥ आयुरारोग्यम्मे देहि निर्विघ्नं कुरु सर्वदा॥मा विघ्नं मास्तु मे पापं मासन्तुपरिपन्थिनः॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः॥ यययंयक्षरूपं दशदिशि वदनं भूमिकम्पायमानं संसंसंहारमूर्ति शिरमुकुटजटाशेखरचन्द्रबिम्बम् ॥दंदंदं दीर्घकेशं विकृतनखमुखंऊर्ध्वरेखाकपालं| पंपंपंपापनाशं प्रणमपशुपतिभैरवं क्षेत्रपालम् ॥ ॐनमः क्षेत्रपाल चित्रतुरङ्गवाहन सर्वभूतप्रेतपिशाचशाकिनीडाकिनीवेतालादिपरिवृत दध्योदनप्रिय सकलशक्तिसहित इमां पूजां गृहाण ।।अनया पूजयाक्षेत्रपाल: प्रीयताम् । क्षेत्रपाळायसाङ्गायसपरिवारायबर्बरकेशाय तप्रेतपिशाचशाकिनीकूष्माण्डगणवेतालादियुताय सायुधाय सशक्तिकाय सवाइनाय इमं सदीपमाषभक्तवलिं समर्पयामि ॥ भो क्षेत्रपाल सर्वतो दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयङ्गुरु आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव अनेन बलिदानेन क्षेत्रपालः प्रीयताम् ॥ पश्चादनवेक्षमाणेन दुर्ब्राह्मणेन शुद्रेण वा बलिं नीत्वाचतुष्पथेस्थापयेत् ।। यजमानस्तस्यपृष्ठतो द्वारपर्यन्तंगत्वाजलंक्षिपेत
१ हेमादिः-सोदकुम्भं सकूष्माण्ड क्षेत्रपालबलिं हरेत् ॥ चतुर्तिसमायुक्त दीप तत्र निधापयेत् ॥
For Private and Personal Use Only