________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ आचारात् लक्ष्मीहोमः॥ क्षीरं दूर्वा दौडिमादिहोमद्रव्याणि एकीकृत्य घृतेनाभिधार्य मनसइत्यस्य दधीचऋषिः निच्युदाबहतीछन्दः श्रीर्देवता लक्ष्मीहोमे विनियोगः-*मनसटकाममाकूर्तिवाच?सत्त्यमशीय ॥ पशूना रूपमन्नस्य॒रसोयशश्री?श्रयताम्मयिस्वाहा ॥
॥अथ व्याहृतिहोमः॥ यजमानः हस्ते जलमादाय-अस्मिन्कर्मणि देवतावदानमन्त्रतन्त्रकर्मविपर्यासमक्षिकाकीटकेशादिभिर्हविर्दुष्टदग्धपाकप्रणीतास्कन्दपरिस्तरणदहनविहितस्थाने होमाकरणाग्न्युपघातशमनकीटपतंगज्वलितान्तरागमनादिज्ञाताज्ञातदोषपरिहारार्थ अष्टोत्तरसंख्ययाघताक्ततिलद्रव्येNणव्यस्तसमस्तव्याहृतिहोमं करिष्ये ॥ पुनर्जलमादाय-भूर्भुवःस्वरितितिसृणां महाव्याहृतीनां प्रजापतिक्रषिः गायत्र्युष्णिगनुष्टुब्छन्दांसि ।
क्रमेण अग्निवायुमर्यादेवताः सर्वासां प्रजापतिर्देवता प्रायश्चित्तहोमे विनियोगः-*भूःस्वाहा-इदमग्नयेनमम ॥ ॐभुवःस्वाहा-इदं वायवे| नमम ॥ ॐस्वास्वाहा-इदं सूर्याय न मम ॥ ॐभूर्भुवःस्वःस्वाहा-इदं प्रजापतये न मम ॥ एवं सप्तविंशतिवारं होमे अष्टोत्तरशताहुतयो , भवन्ति ॥ एवं होम समाप्य उत्तराङ्गानि कुर्यात् ॥
॥ अथ उत्तरपूजनम् ।। __ हस्तेजलमादाय पूर्वोच्चारितशुभपुण्यतिथौ कृतस्य ग्रहशान्त्याख्यकर्मणः साङ्गतासिद्धयर्थं स्थापितदेवतानां गुंडाग्नेश्वोत्तरपूजनं ।
१ सीताफलं क्षीरमाज्यं दाडिमं मधुशर्कराम् । शमीपत्राणि दूर्वा च चिल्वपत्राणि तन्दुलाः ॥ कदलीफलमिश्राणि कृत्वा वै जुहुयात्ततः ॥ २ उत्तराङ्गानि-पूजास्विष्टनवाहुत्योबलिः | पूर्णाहुतिस्तथा । श्रेयः सम्पाद्य दानं च अभिषेको विसर्जनम् ॥ ३ यज्ञपावें कल्पद्रुमे च-पूर्व प्रज्वलितो ह्यमिहविईव्यबुभुषितः । तृप्तो निधूमनिर्णालो मृडामिः परिकीर्तितः॥
For Private and Personal Use Only