________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुशक०
म.
॥३२॥
वा आसादनम् । पवित्रच्छेदनादर्भास्त्रयः ॥ साग्रेऽनन्तर्गर्भे पवित्रे द्वे ॥ प्रोक्षणीपात्रं ॥ आज्यस्थाली ॥ चरुस्थाली ॥ सम्मार्गकुशाःपञ्च॥ उपयमनकुशाः सप्त ॥ समिधस्तिस्रः ॥ सुवः ॥ घुक् ॥ आज्यम् ॥ त्रिःप्रक्षालितास्तण्डुलाः ॥ पूर्णपात्रं ॥ दक्षिणावरोवा यथाशक्ति हिरण्यादिद्रव्यम् ॥ अन्यान्युपकल्पनीयानि अर्कादिसमिधः तिलादिहवनीयद्रव्याणि ॥ इतिपात्रासादनम् ॥ प्रागग्रयो योः पवित्रयोरुपरि उदगग्राणि त्रीणि पवित्राणि निधाय उपरिपादेशमात्रमवशेषयित्वा अधोभागे द्वयोमूलेन द्वौकुशौ प्रदक्षिणीकृत्य त्रयाणां मूलाग्राणि एकीकृत्य नखैरस्पृशन् अनामिकाङ्गुष्ठाभ्यां द्वयोरग्रं छेदयेत् ॥ दे ग्राह्य द्वयोर्मूलं त्रीणि च उत्तरतः क्षिपेत् ।। प्रणीतोत्तरतः मोक्षणीपात्र निधाय तत्र पात्रान्तरेण प्रणीतोदकमापूर्य पवित्राभ्यामुत्पूय ।। पवित्रे प्रोक्षणीषु निधाय ।। दक्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य ॥ सव्ये पाणी कृत्वा ॥ दक्षिणहस्तमुत्तानं कृत्वा मध्यमानामिकाङ्गुल्योः मध्यमपर्वाभ्यामपामुद्दिङ्गनम् ॥ ताभिस्तासां प्रोक्षणम् ॥ आज्यस्थाल्याः मोक्षणम् ॥ चरुस्थाल्याः प्रोक्षणम् ॥ सम्मार्गकुशानां प्रोक्षणम् ।। उपयमनकुशानां प्रोक्षणम् ॥ समिधा प्रोक्षणम् ।। सुवस्यमोक्षणम् ॥ सुचः प्रोक्षणम् ॥ आज्यस्य प्रोक्षणम् ॥ तण्डुलानां प्रोक्षणम् ।। पूर्णपात्रस्य प्रोक्षणम् ॥ अन्येषामुपकल्पनीयहवनीयद्रव्याणां प्रोक्षणम् ॥ असश्चरे प्रोक्षणीपात्रं निधाय ॥ आज्यस्थाल्या आज्यनिर्वापो ब्रह्मणः ॥ चरुस्थाल्यां पवित्र निधाय यजमान । आचार्यों वा त्रि:प्रक्षालितास्तण्डुलान्प्रक्षिपेत् ॥ तत्र प्रणीतोदकमासिच्य ॥ अन्यदपि जलं निपिच्य चरुस्थालीस्थितपवित्रे प्रोक्षणीषु । निधाय ॥ दक्षिणतः ब्रह्मणा आज्याधिश्रयणं मध्ये यजमानेन चरोरधिश्रयणं युगपत् ॥ आज्योत्तरतः गृहीतेन ज्वलदुल्मुकेन । उभयोः ऐशानीमारभ्य ऐशानीपर्यन्तं पर्यग्निकरणम् ॥ इतरथावृत्तिः ॥ अर्धशतेचरौ सुवस्यप्रतपनम्-दक्षिणेन सुवमादाय । पाश्चमधोमुखमग्नौ तापयित्वा सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्गार्मूलतोऽअपर्यन्तं सम्मृज्य मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्त
१ देवे त्रिःप्रक्षालिता ज्ञेया सकृत्पित्र्ये तु तण्डुलाः । २ अवरोक्तमुत्तरविषि ॥
॥ ३२॥
For Private and Personal Use Only