SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्विष्टकृतं अभिस्विष्टकृतं अग्निं वायुं सूर्य अग्रीवरुणौ अग्रीवरुणौ अनिं वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान् वरुणं आदित्यं अदितिं प्रजापतिं एता अङ्ग-प्रधानार्थादेवता एकैकयाज्याहुत्या अस्मिन्कर्मण्यहं यक्ष्ये ॥ समिद्वयं अग्नावादध्यात् । इति अन्वाधानम् ॥ ॥ अथ कुशकण्डिका ॥ अग्नेर्दक्षिणतो ब्रह्मासनास्तरणम् । तत्र पञ्चाशत्कुशमयं ब्रह्माणं उपवेश्य अस्मिन्कर्मणि त्वं ब्रह्म भव || भवामीति प्रतिवचनम् ॥ तत्र पूर्वेण ब्रह्मणोगमनम् ॥ ब्रह्मन् - अपः प्रणेष्यामि ॥ ॐप्रणययज्ञदेवतावर्द्धयत्वंनाकस्य पृष्ठेष जमानो अस्तु सप्तऋषीणा सुकृतांत्र लोकस्तत्रेमं यज्ञंयजमानं चधेहि ॥ प्रणय ।। इति ब्रह्मानुज्ञातः अग्नेरुत्तरतः प्रागग्रैः कुशैः आसनत्रयमकल्पनम् । तत्र एक अग्ने रुत्तरतः । द्वितीयं तदुत्तरतः । तृतीयं तत्पश्चिमे ( वायव्यामित्यर्थः ) वायव्याश्रितं वारणं चमसं दक्षिणहस्तेनादाय || वामपाणौ प्रागग्रं निधाय ॥ दक्षिणहस्तोद्धृतपात्रोदकेन आत्माभिमुखं सम्पूर्य | पश्चिमासने निधाय ॥ दक्षिणानामिकया जलमालभ्य ब्रह्मणोमुखमवलोकयन् -- अग्नेरुत्तरतः प्राक्कल्पिते प्रणीतासने निदध्यात् ॥ ईशान्यादिपूर्वाग्रैस्त्रिभिस्त्रिभिर्दर्भैः अग्नेः परिस्तरणं तच्च प्रागुदगग्रैः दक्षिणतः प्रागग्रैः प्रत्यगुदगग्रैः उत्तरतः प्रागग्रैः ॥ अग्नेरुत्तरतः पश्चाद्वाप्रयोजनवतां पात्राणां प्राक्संस्थमुदक्संस्थं वा प्रागग्रमुदग १ ब्रह्म कौशः कार्यः तन्मूलंछन्दोगगृह्येस्ति ॥ पञ्चाशद्भिः कुशैर्ब्रह्मा इत्युक्तत्वात् पञ्चाशत्सङ्ख्याक कुश बटुंस्थापयित्वेत्यर्थः नसाक्षाद्रह्मण उपवेशनम् ॥ दक्षिणतो ब्रह्माणमुपवेश्येति चतुर्थी कर्मणि सूत्रणात् ॥ कारिकाकारोपि अचेतनेब्रह्मशब्दः कुशमुष्टौचवेदवत् । कुशानां संनिधेयुक्तः समास्तीतिलिङ्गतः ॥ कर्काचार्यांस्तु सर्वत्र साक्षादेव ब्रह्मण उपवेशनं न च दक्षिणतो ब्रह्माणमुपवेश्येत्यनेन पौनरुक्त्यं तस्यावसरज्ञापनार्थत्वादित्याहुः । तदपरे दूषयन्ति स्थालीपाकत्रपणपूर्वका लतावसरः, स चोत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपार्क श्रपयित्व यनेनैव लभ्यते, पूर्वकालतायाः समानकर्तृकयोः क्त्वावाच्यत्वात् । क्त्वाप्रत्ययार्थी सुत्तरकालता । तथा च प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वेत्यनेन स्थालीपाकत्रपणस्योदपात्रस्थापनो. तरकालता बोध्यते । तेन स्थालीपाककरणप्राक्कालतायाः क्त्वाप्रत्ययादेव लाभार्थे तदर्थं दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्रं स्यादत एवं ज्ञायते चतुर्थी कर्मादौ यत्र साक्षाद्रह्मोपब्रेशन मुक्तं तत्रैव प्रत्यक्षत्रह्मोपवेशनं मान्यत्रेति ॥ परिशिष्टे - पचाशता भवेद्रह्मा तदर्द्धन तु विष्टरः । ऊर्ध्वकेशो भवेद्रह्मा लंबकेशस्तु विष्टरः ॥ दक्षिणावर्ती ब्रह्मा च वामावर्तस्तु विष्टरः । For Private and Personal Use Only
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy