________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० ॥ ३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशार्चनम् - स्ववामभागे पूजार्थजलपूरितकलशं संस्थाप्य तत्र वरुणावाहनम् - तत्त्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणो देवता वरुणावाहने विनियोगः- ॐ तत्त्वयामब्रह्म॑णा॒वन्द॑मान॒स्तदाशा॑स्ते॒वज॑मानोह॒विः ।। अहे॑डमानोवरुण॒हवो॒ध्युरु॑शङ्गा॑स॒मान॒ऽ आयु प्रमोषी ॥ ॥ ॐ भूर्भुवः स्वः अस्मिन्कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाश्यामि स्थापयामि ।। प्रतिष्ठापनम् - ॐमनो॑जूतिज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट॑य्य॒ज्ञस॑मि॒मन्द॑धातु ।। विश्वे॑दे॒वास॑ऽइ॒हमा॑दयन्ता॒मो इ॒म्प्रति॑ष्ठ ॥ ॥ ॐ ॥ ॐ वरुणायनमः सुप्रतिष्ठितो वरदो भव || कलशाभिमन्त्रणपूर्वकदेवतावाहनम् – अनामिकया कलशं स्पृष्ट्वा - कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा व सुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोद्यथर्वणः । अङ्गैश्व सहिताः सर्वे कलशाम्बुसमाश्रिताः ॥ अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । आयान्तु देवपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरि सरस्वति । कावेरि नर्मदे सिन्धो जलेऽस्मि - न्सन्निधिं कुरु || ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थ देहि दिवाकर || पूजनम् - पूर्वे ऋग्वेदाय नमः ॥ दक्षिणे यजुर्वेदाय नमः || पश्चिमे सामवेदाय नमः।। उत्तरे अथर्वणवेदाय नमः ।। कलशमध्ये अपाम्पतये वरुणाय नमः ।। कलशाधिष्ठातृदेवताभ्यो नमः ध्यायामि || कलशाधिष्ठातृदेवताभ्यो नमः आसनार्थे अक्षतान्समर्पयामि | | कळशाधिष्ठातृदेवताभ्यो नमः पाद्यं समर्पयामि ।। कलशाधिष्ठातृ||देवताभ्यो नमः अर्ध समर्पयामि । कलशाधिष्ठातृदेवताभ्यो नमः आचमनीयं समर्पयामि || कलशाधिष्ठातृदेवताभ्यो नमः स्नानं समर्पयामि।।। फलशाधिष्ठातृदेवताभ्यो नमः वस्त्रार्थमक्षतान्समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः यज्ञोपवीतार्थमक्षतान्समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्योनमः गन्धं समर्पयामि ।। कलशाधिष्ठातृदेवताभ्योनमः अक्षतान् समर्पयामि ।। कलशाधिष्ठातृदेवताभ्योनमः पुष्पाणि समर्पयामि ।। कलशाधिष्ठातृदेवताभ्यो नमः सौभाग्यद्रव्याणि समर्पयामि || कलशाधिष्ठातृदेवताभ्यो नमः धूपं आघ्रापयामि | | कळशाधिष्ठातृदेवताभ्योनमः
For Private and Personal Use Only
गणपतिपूजनम०
॥ ३ ॥