SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ ] धीश्रीधरचरितमहाकाव्यम् । [षष्ठः श्रेणिः पक्षे सन् श्रेणिपालिना श्रियम् । 'अनेकप' इति आख्या-नाम येषां पक्षे अनेकपा:-अनेकरक्षकाः । नरकुञ्जरत्वं-नरश्रेष्ठत्वम् ॥ १०९ ।। इतः पुरोऽस्याः परितो वनाली, विलोक्यता नाथ! यथा घनाली। प्रेढोलनोच्छृङ्खलपौरनार्यो, विद्युल्लतावद् विलसन्ति यत्र ॥११०॥ दु० व्या०-पुरः-नगर्याः ।। ११०॥ स्वयंवरायातनरेश्वराणामितः सरस्यां तरलास्तुरङ्गाः । ललन्ति लीलाभिरपाङ्गदेशे, सुलोचनाया इव दृक्तरङ्गाः ॥१११॥ यैः स्पर्धित कोमलकाम्यकन्याऽऽनने नलीनान्यपि तानि नीरे। मृनन्ति पद्मानि पदैस्तडागे, तदर्थनां भूमिभृतां करीन्द्राः॥११२॥ इमाः पटावासघटाः सितामा राजन्ति राजनिकपा पुरं याः। सोढाः स्वशीर्षापरि भूमिपालैः, सुलोचनालोचनभङ्गिभासः॥११३ दु० व्या०-निकषा पुरं-पुरसमीपे ॥११३॥ सूक्तरमीभिः श्रवणप्रयुक्तैः कदधिः कुण्डलपौनरुक्त्यम् । क्षणे क्षणे तस्य विशेषवीक्षाप्रीत्येरितोऽगात् समया पुरं सः ॥११४॥ दु० व्या०-समया पुरं-पुरसमीपम् ॥११४॥ ततस्तमभ्यागतभूपरत्नाङ्गदः सतन्त्रं स्वपुरं प्रवेश्य । पौरः परप्रीतिभरेण गौरः, पेयं परे स्थापयति स्म सौधे ॥११५।। दु० व्या०-पेयं-विलोक्यम् ।। ११५ ॥ कृष्टा गुणैस्तत्र सुलोचनायाः, समं समीयुर्यदि ते खगेन्द्राः। न कौतुकं किन्तु महीधराणामिहागमश्चित्रकृते नराणाम् ॥११६॥ दु० व्या०-खगेन्द्राः-पक्षिश्रेष्ठाः । महीधराणां-गिरीणाम् ॥११६॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy