________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
3
एतत्पाठः स्पष्टं निश्चीयते यत्, माणिक्यसुन्दरसूरेः गच्छ आञ्चलिकः, गुरुमेरुतुङ्गसूरिः, विद्यागुरुर्जयशेखरसूरिः, शिष्याः उपाध्यायधर्मनन्दनप्रमुखाः । सत्तासमयो वैक्रमीयपञ्चदशशताब्धन्त्य चरणम् ग्रन्था माणिक्याङ्कापरनाम श्रीधर चरित-चतुष्प-शुकराजकथा- पृथ्वीचन्द्र चरित्र - गुणवर्मचरित्र-धर्मदत्तकथाअजापुत्रकथा - आवश्यकटीकाप्रमुखाः सन्ति, अयं सूरिः सर्वशास्त्रविशारद इति तत्तद्ग्रन्थसंदर्भेणैव स्पष्टं प्रतिभासते ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधरचरितमहाकाव्य कथा परिचयः ।
प्रस्तावना वर्णनात्मके प्रथम सर्ग - प्रथमं कविना मङ्गलाचरणरूपेण युगादिप्रभु - शान्तिनाथ - नेमिनाथ- पार्श्वनाथ - महावीरस्वामि- सर्वजिन-सरस्वती - गौतमस्वामि- सुधर्मस्वामिनां स्तुत्यात्मकानि पद्यानि निर्दिष्टानि । तत्रात्मपरिचयं प्रकटयतः कवेर्गुरुपरम्परा यामादौ श्रीसुधर्मस्वामिनश्चन्द्रकुले आर्यरक्षितसूरयस्तेषां पड़े मेरुतुङ्गसूरयस्तेषां शिष्यः माणिक्यसूरिः, येन निबद्धोऽयं ग्रन्थ इति दर्शितम् । कविः स्वयं स्वविद्यागुरुं श्रीजयशेखरसूरिं प्रणमन् तस्योपकारं स्मारयति यत्, तस्यैव विद्यागुरोः प्रसादाद् ग्रन्थोऽयं रचितो मयेति ।
इत्यादि प्रकारेण कविङ्गलाचरणं कृत्वातिप्रसिद्धछन्दोलक्षणेन पाण्डित्यसाधनेन चानन्दसाधिका रचना क्रियते मयेति कथयति । दुग्धे शर्करासंयोग इव काव्यरचनायां छन्दोलक्षणप्रथनमिति प्रदर्शयन् कविः साहित्यप्रासादस्य पीठिकेव छन्दोलक्षणस्य गणव्यवस्थादि दर्शयति । वर्णवृत्त उक्तेत्यादिछन्दसां नामानि सूचयति । सर्गस्यान्तिमश्लोकेऽस्य काव्यस्य कथासूचनं कृतमस्ति । तचेत्थम् - प्रथम जन्मनि श्रीधरनाम्नो भूपतेः तृतीये च भवे विजयचन्द्रनामधेयस्य राज्ञः सरसं कथावर्णनमस्मिन् काव्ये गुम्फितम् ||
द्वितीयसर्गे -- तत्कथां विस्तारयति । जम्बूद्वीपे भारतनाम्नि क्षेत्रेऽलकापुरीसदृशं मङ्गलपुरनामकं नगरमासीत् । तत्र सर्वगुणकलासंपन्नो जयचन्द्रनामा भूपती राज्यं करोति स्म । तस्यैका निर्मलशीलसंपन्ना कलावतीनाम्नी
For Private And Personal Use Only