________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ ]
श्री श्रीधरचरितमहाकाव्यम् ।
अस्मिन्नसारे संसारे, सारं तावन्नृणां भवः । तत्रापि धर्मो धर्मेऽपि, कृपां विद्धि नृपाङ्गज ! ॥ १८ ॥
दु० व्या०-विद्रि- जानीहि ॥ १८ ॥
यथा तारां विना चक्षुर्यथा वारि विना सरः । तथा धर्मः समग्रोऽपि न विभाति कृपां विना ॥ १९ ॥ चत्वारि पञ्च वा सन्तु व्रतानि द्वादशाऽथवा । किन्तु रक्षणमेतेषां रक्षणीयं पुनः कृपा ॥ २० ॥ राजसूस्तमथ प्रोचे, रोचितं मे भवद्वचः । जन्तुघातनिषेधस्य किं फलं तु यतिर्जगौ ॥ २१ ॥ मोक्षोऽमुष्य फलं मुख्यमित्याख्यन्नृपभूः पुनः । पालयामि कृपामेष मम कस्मिन् भवे भवेत् ॥ २२ ॥ दु० घ्या० - अमुष्य - जन्तुधाननिषेधस्य । एषः- मोक्षः फलम् ॥२२॥ उवाच ज्ञानवान् साधुर्भूरिभाग्यभरो भवान् । प्रदत्तत्रिदिवाकम्पा, पुरी चम्पाऽस्ति संपदा || २३ ॥ भूपः परमदेवोत्र, भावी भूयः पराक्रमः । देवी च ललिता तस्य, लालित्यगुणशालिनी ॥ २४ ॥ दु०
० व्या०- भूयः प्रचुरः ॥ २४ ॥
"
ऋतुं वसन्तं सा स्वप्ने, द्रक्ष्यन्युल्लसितश्रियम् । वसन्तराज इत्यस्याः सुतस्त्वं च भविष्यसि ॥ २५ ॥ क्रमात् तारुण्यपुण्याङ्गः, पद्मिनीहृदयप्रियः । स्ववंशम्भोरुहोल्लासे, सविता भविता भवान् ॥ २६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ चतुर्थः
दु० व्या०- सूर्यपक्ष क्रमेण आत्तं गृहीतम, आरण्यं - सातत्यम्, पुण्याङ्गं च येन ॥ २६ ॥