________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायानुवाद सूक्ष्मैः अङ्ग-सञ्चारैः, सूक्ष्म : खेल (श्लेष्म ) सञ्चारैः, सूक्ष्मैः दृष्टि-सञ्चारैः ॥२॥ एवमादिभिः आकारैः-अपवादरूपैः, अभन्नः न सर्वथा नाशितः, अधिराधितः = न देशतो नाशित:, भवतु मे कायोत्सर्गः ॥३॥ [कियन्तं कालं यावत् ? ] यावद् अर्हतां भगवतां नमस्कारेण न पारयामि ॥४॥ तावत् [ तावन्तं कालं ] कायं स्थानेन, मौनेन, ध्यानेन, आत्मानं = आत्मीयं, व्युत्सृजामि ॥५॥
चतुर्विशतिस्तव सूत्र लोकस्योद्योतकरान्, धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विशतिमपि केवलिनः॥१॥ ऋषभमजितं च वन्दे, संभवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपावं, जिनं च चन्द्रप्रभं वन्दे ।। २ ।। सुविधिं च पुष्पदन्तं, शीतल-श्रेयांसं वासुपूज्यं च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ॥३॥ कुन्थुमरं च मल्लिं, वन्दे मुनिसुव्रतं नमिजिनं च । वन्दे अरिष्टनेमि, पाव तथा वर्द्धमानं च ॥४॥ एवं मया अभिष्टुता, विधुतरजोमलाः प्रहीणजरामरणाः। चतुर्विशतिरपि जिनवराः, तीर्थकराः मे प्रसीदन्तु ॥५॥ कीर्तित-वन्दित-महिताः, ये एते लोकस्योत्तमाः सिद्धाः। आरोग्य - बोधिलाभ, समाधिवरमुत्तमं ददतु ॥६॥ चन्द्र भ्यो निर्मलतराः, आदित्येभ्योऽधिकं प्रकाशकराः। सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ॥७॥
For Private And Personal