________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11७६॥
सूत्रम्
'किं कृतं' ? स्वामिन् ! तव उत्तमत्वं व्यलोकि । तत उद्याने आनन्दनामा सूरिस्तत्रागतः । तमागतं श्रुत्वा दिवाकरो वन्दित्वोपविष्टः प्रश्नयति-'भगवन् सर्वोत्तमत्वं क्वाप्यस्ति' ? गुरुणोक्तम्-'शृणु' ।
क्षितिप्रतिष्ठितपुरे जितशत्रुराजा, मन्त्री सोमदत्ताख्यः । तेन मित्रत्रयं विहितं । तत्र सह १ पर्व २ प्रणाम ३ भेदात् त्रयं । अन्यदा राजा रुष्टः । ततो भयभीतो निशायामेकाकी सहमित्रगृहे प्राप्तः । ततः सहमित्रं कथयति तावन्मैत्री यावद् राजा न रुष्यति । ततस्त्वं गृहाद् व्रज | ततः पर्वमित्रगृहे, सोऽप्येवम् । ततः प्रणाममित्रगृहे । स
उत्तमत्वात् प्रश्नं करोति, तव कीदृश्यवस्थेयम् ? मह्यं नृपः कुपितः । स भणति-सर्वथा भयं मा कुरु, अहं तव | पृष्टिरक्षकः । ततः स निर्भयो जातः । तेन आचार्योपदेशात् सहमित्रसमं जीवं, पर्वमित्रसमं देह, प्रणाममित्रसमं धर्म ज्ञात्वा दिवाकरेण दीक्षा गृहीता | नरसुरऋद्धिं प्राप्य शिवं यास्यतीत्युत्तमसेवायां दिवाकरकथा ।।१६९।। एवं कुमित्रसुमित्रसंसर्गफलं सदृष्टान्तमुपदी सत्सङ्गमुपदिशन्नाह
तम्हा जे सीलसंजुत्ता, गीयत्था पावभीरुणो ।
ते मित्ता सबहा कुज्जा, इच्छंतो हियमप्पणो ||१७०॥ व्याख्या-'तम्हा जे सीलसं०' तस्मादनन्तरोक्तकारणात् ये गृहस्थाः, किं विशिष्टाः ? शीलसंयुक्ताःसदाचारवन्तः सव्रता वा, तत्र
"लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ।।१।।
IMI
ooooooooooooooooodooooooooooooooooooooo
||७६॥
For Private and Personal Use Only