________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||७५||
ततस्तुष्टेन नृपेणोक्तम्-'भद्र ! किं ददामि । तेनोक्तम्-'मम दारिद्रयक्षयं कुरु' । ततस्तेन सार्धाष्टमग्रामशतं दत्तम् । ततो राज्ञा जिह्वाच्छेदे दिष्टे, मित्रीकृतं पिङ्गलदासं जीवितदापनेन, पत्नी चैकदा मयूरमांसदोहदपूरणेन मित्रसेनां दासीमुपकृतवान् । ततो राज्ञि क्रुद्धे जीवितव्यसन्देहं प्राप्तः । कुसङ्गतिं परीक्ष्य मङ्गलपुरे गत्वा पूर्णचन्द्रराजसुतं गुणचन्द्रकुमारं दिवाकरः सेवते स्म । अन्यदा कुमरो विपरीतशिक्षिततुरगेणाटव्यां प्राप्तः तृषाक्रान्तोऽभूत् । दिवाकरोऽपि सार्धं पक्वामलकत्रयं लात्वा गतः । तं दृष्ट्वा कुमरोऽवदत्-त्वं मां पानीयं पाहि । ततस्तदभावे दिवाकरेणामलकत्रयमर्पितम् । राजा सन्तुष्टः स्वगृहं प्राप्तः । ततः क्रमेण नृपेणाचिन्ति-नास्ति मूल्यमेतस्य त्रयस्य । ततः कियता कालेन गुणचन्द्रो राजाऽभूत् । तस्य सम्पूर्णदिनैः सुतो जातः । स परिवारपरिवृतः सदैव दिवाकरगृहे व्रजति । | तदा मन्त्री चिन्तयति चेत् राजा मम गुरुदोषं सहते, तदा ज्ञायते राज्ञ उत्तमत्वम् । ततो गृहागतः कुमरस्तेन
लब्धलक्षण प्रच्छन्नभूमिगृहे स्थापितः । भोजनसमये राज्ञा कुमरो भानूदयं यावत् शोधितः परं न लब्धः । कथितं च परिजनन स्वामिन् ! मन्त्रिगृहे प्रविशन् दृष्टः' | राज्ञा कुमरशुद्धिकरणविषये पटहो दत्तः । तावता दिवाकरेण मनोरथदत्तश्रेष्ठिगृहे गत्वोक्तम्-'श्रेष्ठिन् भार्याया दोहदोत्पत्तौ मया उन्मत्तेन कुमरो व्यापादितः । कृतं च रभसवृत्त्याऽकार्यम्' । तथा वसन्तसेनापणाङ्गनायाश्च गृहे निवेदितम् । ततो राज्ञः पुरः श्रेष्ठिना पणाङ्गनयापि चोक्तम्-मया हतोऽस्ति । ततो द्वयोरपि मन्त्रिपण्याङ्गनयोरभयदानप्रदानपूर्वं सुसंगतिं परीक्षितवान् । तदनु मन्त्रिणा राजा भोजनार्थमाकारितः । राज्ञो भोजनं विधाय सर्वालङ्कारविभूषितः कुमार उत्सङ्गे मुक्तः । राज्ञा विस्मितेन तुष्टचित्तेन भणितम्
Mosbodiosbobodoosroomorrowom
||७५||
For Private and Personal Use Only