________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥७४॥
www.kobatirth.org
वरं गर्भश्रावो वरमृतुषु नैवाभिगमनम्, वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमगृहवासे प्रयतितम्, न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ||१|| ततो म्रियमाणेन पित्रा 'वत्स ! सुसङ्गं, नतु कुसङ्गं कुर्या इत्युक्तः । यतः
'जो जारिसेण मित्ति, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिलावि तग्गंधिया हुंति ॥२॥ अंबरस य निंबस्स य, दुन्हंपि समागयाई मूलाई । संसग्गेण विणट्ठो, अंबो निंबतणं पत्तो ||३ | '
Acharya Shri Kailassagarsuri Gyanmandir
तेन तथा प्रतिपन्नम् । कियद्भिर्दिनैः पुरोहितपदाच्च्युतः कस्मिन् ग्रामे जरत्ठकुरसेवां कृतवान् । तस्य | भृत्यपिङ्गलेन सह मैत्रीं करोति । तथा च तत्पत्न्या मित्रसेनया सह मैत्रीं कुर्वन् राजप्रमुखजनान् रञ्जयति । अन्यदा राज्ञा 'समानशीलव्यसनेषु सख्यमिति तुर्यवृत्तपादं विधाय भणितम् एनां समस्यां यः पूरयति तस्य वरं ददामि' । इति श्रुत्वा दिवाकरेण पूरिता सा ।
'मृगा मृगैः संगमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खेः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् ||१||
For Private and Personal Use Only
सूत्रम्
॥७४॥