________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||७२।।
Joodoodh
आशातनायाश्चात्र प्रवचनावर्णवादरूपायाः स्वयं कृताया आत्मनिमित्तपरकृतायाश्च परिहारोपाये प्रकर्षेण यतितव्यम् । अत्रार्थे श्रीवीरनिदर्शन-श्रीवीरो पितृवयस्यदूइज्जंतगाख्यतापसाश्रमे चतुर्मासीस्थितोऽन्यत्र निस्तृणत्वाद् गोष्वाश्रमतृणान्याकर्षयत्सु ते तापसा यष्टिलोष्टादिभिः पीडयन्तो गत्वा कुलपतेः प्रोक्तवन्तः कीदृशोऽयं भगवन् भवद्वल्लभः देवार्यो यः स्वाश्रममपि न रक्षति । ततोऽसौ प्रभुसमीपमभ्येत्य विनष्टप्रायमाश्रममालोक्योक्तवान् 'वत्सैते नीडजा अपि स्वनीडं रक्षन्ति तत्किं न भवान्' इत्यभिधाय कुलपतौ गते स्वाम्येवमचिन्तयत्-एते दुर्लभबोधिकत्वाः सन्तो मानन्तसंसारिकता प्रापन्निति विचिन्त्य वर्षारात्रेऽतिक्रान्ते ततोऽस्थिकग्राममगमत् । तत्र च ब्रह्मराक्षसं प्रतिबोधितवान् ।।१६३।। एवं व्यवहारशुद्धिविषयेऽन्वयव्यतिरेकावुपदोपदेष्टुमाह
तम्हा सवपयत्तेणं, तं तं कुज्जा वियक्खणो ।
जेणं धम्मस्स खिसंतु, न करेइ अबहो जणो ॥१६४।। न्याख्या-'तम्हा स० स्पष्टा ||१६४।। अन्यच्च
कुसीलाणं तु संसग्गी, धम्मखिंसाइ कारणं ।
इह लोए परलोए य, महादुक्खाण दायगा ||१६५।। व्याख्या-'कुसीलाणं०' सुगमा, नवरं कुशीला द्यूतकृत्यपारदारिकविटनटादयः ||१६५|| किंच
oooooooooooooooooooooooooochodochodbodbochochod
॥७२॥
For Private and Personal Use Only