________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०यद्गर्हितं,लोकोत्तरे च तिलभाण्डशालादिकुत्सितं, तच्च वर्जयेदिति ।।१५८|| व्यवहारशुद्धिमेवोत्तरोत्तरगुणभूतां त्रिसूत्र्याह||७||
ववहारसुद्धी धम्मस्स, मूलं सबन्नु भासए ।
ववहारेणं सुद्धेणं, अत्थसुद्धी जओ भवे || १५९।। व्याख्या-'व्यवहार० अनन्तरोक्ता हि व्यवहारशुद्धिर्मनोवाक्कायावक्रतारूपा, सा च धर्मस्य मूलमाद्यं कारणं । सर्वज्ञः- तीर्थकृद् भाषते-सोही उज्जुयभूयस्स धम्मो सुद्धस्स चिट्ठई' इत्यादि व्यक्तवाग्भिबूंते । यतो व्यवहारशुद्धयैव अर्थशुद्धिरपि भवेदतः सैव धर्मस्य मूलम् ।।१५९||
___ सुद्धणं चेव अत्थेणं, आहारो होइ सुद्धओ ।
आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ||१६०|| व्याख्या-'सुद्धणं चेव० शुद्धेनैवार्थेनाहारो ऽशनादि नायागयाण मित्यादिवचनबलाच्छुद्धो-निर्दोषः । आहारेण पुनः शुद्धेन यतो देहशुद्धिर्भवेत् । बाह्यमलसद्भावेऽपि भगवदाज्ञावर्तित्वेन कर्ममलापगमात् ।।१६०||
सुद्धेणं चेव देहेणं धम्मजोग्गो य जायई।
जं जं कुणइ किच्चं तु तं तं से सफलं भवे ||१६१।। व्याख्या-'शुद्धेनैव च देहेन धर्मयोग्यस्तु जायते । यथा हि प्रक्षालिताङ्गः सदलङ्कारार्हो भवति, तथायमपीत्थं शुद्धदेहो धर्मरत्नालङ्कारयोग्यः स्यात् । ततश्च यत् यत् करोति कृत्यं देवार्चादानानुष्ठानादिकं तत्तत् 'से' तस्य सफलं
oooooooooooooo
c
పందించింద
11७०||
For Private and Personal Use Only