________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 114811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुर्लभबोधिको भणितः । यदुक्तम्- 'चेइयदव्वविणासे, इसिघाए पवयणस्य उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ||१||' विनाशो भक्षणोपेक्षणादिलक्षणोऽत्रावसेय इति ॥१२७॥ द्वैविध्यमेवाहजोगं अईयभावं, मूलुत्तरभावओ अहव कटुं ।
जाणाहि दुविहमेयं, सपक्खपरपक्खमाई वा ॥१२८॥
I
व्याख्या- 'जोग्गं अई०' योग्यं चैत्यनिमित्तं नव्यमानीतम् । अतीतभावं- लग्नोत्पाटितम् । अथवा मूलोत्तरभेदतः । तत्र मूलद्रव्यं स्तम्भकुम्भिकादि । उत्तरद्रव्यं तु च्छादनादि । तत्किमित्याह- 'कट्ठे' ति, काष्ठं, काष्ठस्योपलक्षणत्वादिष्टिकोपलादि च स्वपक्षपरपक्षजनितविनाशद्वैविध्याद्वा । तत्र स्वपक्षः साधर्मिकवर्गः । परपक्षो वैधर्मिकलोकः । एवमनेकप्रकारं तच्चैत्यद्रव्यं जानीहि द्विविधमिति ॥ १२८॥
चैत्यद्रव्यविनाशदोषं प्रसङ्गतो गुरुद्रव्यविनाशदोषं च व्यवहारभाष्यगाथादिभिर्दर्शयतिइयदव्वं विभज्ज, करिज्ज कोइ नरो सयट्ठाए । समणं वा सोवहियं, विक्किजा संजयट्ठाए ॥१२९ ॥
व्याख्या- 'चेइय०' चैत्यद्रव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भोगेन स्वयमात्मनोऽर्थाय मोदकादि कुर्यात् । कृत्वा च संयतानां दद्यात् । यो वा संयतार्थाय श्रमणं सोपधिकं विक्रीणीयात् । विक्रीय च तत् प्रासुकं वस्त्रादि संयतेभ्यो दद्यात् ॥१२९||
For Private and Personal Use Only
सूत्रम्
॥५९॥