________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० व्याख्या-'इय सो०' इत्येवमुक्तनीत्या स सङ्काशजीवो महानुभावः- समुद्घटितप्रशस्तसामर्थ्यः सर्वत्र- 15 सूत्रम् 11५८॥ 18 सर्वकृत्येष्वविधिभावत्यागेनानुचितप्रवृत्तिनिरोधेन चरित्वा- निषेव्य विशुद्धधर्म श्रुतचारित्रलक्षणमस्खलिताराधको निर्वाणस्य साधकः सआत इति गाथा चतुर्दशकार्थः ।।१२५।। देवद्रव्यवक्तव्यता सदृष्टान्तमभिधाय साम्प्रतं तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावयिषयाह
चेइयदळ साहारणं, च जो दुहइ मोहियमईओ ।
धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ||१२६।। व्याख्या-'चेइय०' चैत्यद्रव्यं प्रसिद्धम् । साधारणं च चैत्यपुस्तकापगतश्रावकादिसमुद्धरणयोग्यम् ऋद्धिमच्छ्रावककृतसमुद्गकरूपम् । ते द्वे अपि यो द्रुह्यति- विनाशयति दोग्धि वा- व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्ते, मोहितमतिक:- क्लिष्टकर्मोदयात् मूढीकृतचेतस्कः । 'धम्मं चेति प्राग्वदिति ।।१२६।। अन्यच्च
चेइयदबविणासे, तद्दबविणासणे दुविहभेए ।
साहू उविक्खमाणो, अणंतसंसारिओ भणिओ ||१२७|| व्याख्या-'चेइय०' चैत्यस्य-जिनायतनस्य द्रव्यं-हिरण्यसुवर्णादि तस्य विनाशे, तथा तस्य- चैत्यस्य द्रव्यं दारूपलेष्टिकादि, तस्य विनाशने- विध्वंसने, किंभूते ? द्विविधे- वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे, केनचित् क्रियमाणे सति, साधुः सावधव्यापारनिवृत्तोऽपि उपेक्षमाणो- देशनादिभिरनिवारयन्ननन्तसंसारिको- 11५८॥
For Private and Personal Use Only