________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० 11५७||
ooooooooooooooooo
निट्ठीवणाइकरणं, असक्कहाणचिय आसणाई य ।
आययणंमि अभोगो, इत्थ देवा उदाहरणं ॥१२३।। व्याख्या-'निट्ठीवणा०' निष्ठीवनादे: करणं-विधानं | आदिशब्दाच्छेषाशातनापरिग्रहः । तथाऽसत्कथा राजकथाद्याः । अनुचितासनादि चानुचितमासनं गुरुजनापेक्षया उच्च समं वा । आदिशब्दात्पर्यस्तिकादि । असत्कथानुचितासनानामाशातनान्तर्गतत्वेऽपि पृथग्ग्रहणमेषां महावज्ञास्पदत्वेनातिशयवर्जनख्यापनार्थम् । एतत्सर्वं किमित्याहआयतने-जिनगृहे अभोगो वर्तते, नत्रः कुत्सार्थत्वात् कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगस्तस्य महाशातनाफलत्वेन दुर्गतिहेतुकत्वादिति । अत्र- भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ।।१२३।। एतदेव भावयति
देवहरयंमि देवा, विसयविसमोहिया वि न कया वि ।
अच्छरसाहिं पि समं, हासखिड्डाइं वि न कुणंति ॥१२४|| व्याख्या-'देवहर०' देवगृहे-नन्दीश्वरादिगतचैत्यभवनरूपे विषयविषविमोहिता अपि न कदाचिदपि अप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समंहासं प्रतीतं,खेला-क्रीडा आदिशब्दाच्चित्रचसूरीवचनपरिग्रहः । अपिशब्दात स्थूलाशेषापराधावरोधो दृश्यः ।।१२४।।
इय सो महाणुभावो, सव्वत्थ वि अविहिभावचाएण | चरिउं विसुद्धधम्मं, अक्खलिआराहओ जाओ ||१२५।।
11५७||
For Private and Personal Use Only