________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥३६॥
सूत्रम्
oopoop
महानिर्जराफल इति दर्शनार्थम् । तच्छून्यस्य तु कीर्त्यादिप्रवृत्तस्य महतोऽप्यनुष्ठानस्य वैफल्याभिधानात् । उक्तं च'क्रियाशून्यस्य यो भावो, भावशून्यस्य या क्रिया । एतयोरन्तरं ज्ञेयं, भानखद्योतयोरिव ||१।।' ७३||
अत्यवंतेण सुद्धणं, गीएणं करणाइणा |
जिणाणं जियमोहाणं, गायए गुणपगरिसं ||७४|| व्या०-'अत्यवंतेण०' जिनानां जितमोहानां गुणप्रकर्ष- दुस्तपतपोलक्ष्म्यादिरूपं गाययेत् । केन ? गीतेनगान्धर्वेण, किंविशिष्टेन ? अर्थवता- वैराग्यैकरसयुक्तेन । पुनः किंभूतेन ? करणादिना शुद्धन- त्रिस्थानकरणादिना विशुद्धेन । तत्र त्रीणि स्थानानि उरःप्रभृतीनि । तेषु करणेन-क्रियया विशुद्धं । तद्यथा- उरोविशुद्धं, कण्ठविशुद्ध, शिरोविशुद्धं च । तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं । स एव यदि कण्ठेन वर्तितो भवति, अस्फुटितश्च ततः कण्ठविशुद्धम् । यदि पुनः शिरः प्राप्तः स च सानुनासिको न भवति ततः शिरोविशुद्धं । यद्वा उरः-कण्ठ-शिरोभिः स्थानैः श्लेष्मरहितैर्यद् गीयते तत् त्रिस्थानकरणविशुद्धम् । आदिशब्दान्मBधुरादिगुणयुक्तेन प्रकर्षं यथा स्यादेवम् ।।७४।।
ततं च विततं चेव, घणं सुसिरसुतालयं । आउज्जं एवमाईयं, वाए वायावए तओ ||७५||
oooooooooooooooook
T
॥३६॥
For Private and Personal Use Only