________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन ॥३५॥
www.kobatirth.org
साम्प्रतं वन्दनमिति नवमद्वारम् । तच्च भावपूजारूपचैत्यवन्दनलक्षणं द्रव्यपूजाशेषं च षट्सूत्र्याहपणिहाणं च काऊणं, करे अन्नं तओ इमं ।
नाणाविहाइ भत्तीए, उल्लोयं जिणमंदिरे ॥७१॥
Acharya Shri Kailassagarsuri Gyanmandir
To- 'पणिहाणं' प्रणिधानं चेत्यनेन सम्पूर्णचैत्यवन्दनविधिः सूचितस्ततः प्राग्वत् प्रणिधानावसानं चैत्यवन्दनं कृत्वा कुर्यादन्यद् इदम्-आसन्नोपदर्श्यमानतया प्रत्यक्षं । किं तदित्याह-नानाविधाभिर्भक्तिभिर्विच्छित्तिभिरुल्लोचं जिनमन्दिरे ॥७१॥ कैरित्याह
वत्थेहिं देवंगदुगल्लएहिं, पट्टेहिं खोमेहिं य उत्तमेहिं ।
सुवन्नरूप्पेहिं पवालएहिं, मुत्ताहलेहिं च महालएहिं ॥७२॥
व्या०-वस्त्रैर्देवाङ्गैरिति देवदूष्यैः दुकूलैर्दुकूलाख्यवृक्षत्वज्जैः पट्टे:- कौशेयैः क्षोमैः कार्पासैरुत्तमैः- प्रधानैः । कीदृशमित्याह- सुवर्णरूप्यैः प्रवालैर्मुक्ताफलैश्च महालयैर्महाप्रमाणैः, खचितमिति शेषः ||७२|| सुवन्नजुत्तेहिं सुगंधहिं, नाणापयारेहिं सुगच्छिएहिं ।
फाण गेहं तु करेइ रम्मं, सुभत्तिजुत्तो जिणमंदिरंमि ॥७३॥
व्या०-'सुवन्न०' सुवर्णयुक्तैर्विशिष्टवर्णोपेतैः सुगन्धिभिर्नानाप्रकारैर्जलस्थलजैः सुग्रथितैः, पुष्पैरिति शेषः । पुष्पगृहं पुनः समवसरणाद्याकारं रम्यं करोति । सुभक्तियुक्तः इत्यसकृदभिधानं भावयुक्तस्यैव सकलक्रियाकलापो
For Private and Personal Use Only
सूत्रम्
॥३५॥