________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥३४॥
II
अथ प्रभावती कथा- चम्पायां नगर्यां सुवर्णकारोऽनङ्गसेनोऽत्यन्तस्त्रीलोलो बहुद्रव्यदानेन कृतपञ्चशतपत्नीकः, पञ्चशैलाभिधानद्वीपस्थविद्युन्मालिदेवे च्युते तत्पत्नीहासाप्रहासाभ्यां विप्रतारितो, द्रव्यकोटिदाने वृद्धनाविकेन तद्द्वीपे नीतोऽपि मनुजत्वात्ताभ्यां पश्चात्प्रेषितो । नागिलमित्रेण बोधितोऽपि इङ्गिनीमरणं प्रपद्य विद्युन्माल्यभूत् । स च नन्दीश्वरद्वीपे नाटकावसरे मिलितसर्वदेवेष्वनिच्छन्नपि बलात्कण्ठपतितपटहो द्वादशदेवलोकवासिना पूर्वभवमित्रसम्बन्धेन नागिलदेवेन विद्युन्माली पृष्टः मामुपलक्षयसि ? तेनोक्तं, न, ततो नागिलदेवेन स्वं निवेद्य धर्म स्वीकारितो। नागिलदेवेनोक्तस्य गोशीर्षचन्दनस्य दारुमध्ये क्षिप्तां देवाधिदेवप्रतिमां बोधिनिमित्तं कृत्वा, तस्मिन्नवसरे कस्यचिद्वणिजस्तत्र समायातस्य दुवतिन स्खलिते प्रवहणे षण्मासं यावत्सङ्कटान्निस्तार्याऽर्पयित्वा च तां, अद्य तव प्रवहणं, ममानुभावात् प्रात:तभयनगरकूले प्राप्स्यतीत्यवादीत् विद्युन्माली । वणिजा तत्र प्राप्तेन प्राभृतपूर्वमेतस्य दारोदेवाधिदेवप्रतिमा क्रियतामित्युक्ते उदायने राज्ञि मन्त्र्यादिकथिते ब्रह्मादिप्रतिमोपक्रमेऽपि कुठारप्रहारालगने, प्रभावत्या श्रीवीरजिनविचारकथने कुठारेण प्रदत्तेन प्रकटितायाः श्रीवीरप्रतिमाया अग्रे प्रभावती नाट्यं चकार । नाट्यविधौ निजपत्या शिरश्छायाऽदर्शनशुक्लधौतमार्गरक्तीभवनाद्युत्पातेन ज्ञातासन्नमरणा प्रव्रज्य तापसव्यतिकरेण स्वपतिं राजानं प्रतिबोधितवती चेत्यादि प्रभावतीकथा । तथा नारदेन तु नाट्यविधिर्यथा कृतस्तथा ग्रन्थान्तरादवसेयः ।।७०।। द्वारम् ८॥
Goodoodoodoodoodhodhodhodiosbodoooodbodhodoodoodh.
॥३४॥
For Private and Personal Use Only