________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥३३॥
'कुसुमेहिं०' स्पष्टा ||६८॥
अगरकप्पूरमीसं तु, दहे धूवं वियक्खणो ।
आरत्तियाइपज्जतं, करे किच्चं तओ पुणो ॥६९।। व्या०'अगर०' अगरकर्पूरमिश्रं तु दहेर्दूपं-तुरुक्खसिल्हकादिरूपं विचक्षणस्तुरुक्खसिल्हकादिधूपविधिकशलः । अयं च पूजाविधी राजप्रश्नीयोपाङ्गेऽप्यस्ति ।।६९।। आरात्रिकावसरे च नाट्यं विधेयमतस्तत्सदृष्टान्तमाह
देविंददाणविंदेहि, नारएणं जहा कयं |
पभावईइ देवीए, तहा नर्से करे विऊ ||७०।। व्या०-'देविंद०' देवेन्द्रदानवेन्द्राभ्यां नारदेन यथा कृतं, नाट्यमित्यत्रापि सम्बध्यते, प्रभावत्या च देव्या, तथा नाट्यं कुर्याद् विद्वानिति ।
देवेन्द्रकथा-विंशतिसुव्रततीर्थकृतश्राद्धस्य कार्तिकश्रेष्ठिनो जीवो देवेन्द्रशक्रो विशाखापूर्वी बहपूर्णकोद्याने स्थितस्य श्रीवीरजिनस्याग्रे यथा सप्रभेदं नाट्यं कृतवान् ।
अथ चमरेन्द्रकथा-विन्ध्याद्रिस्थबिभेलग्रामवासिनो वैराग्येण गृहीततापसव्रतस्य षष्ठाशिनः पूरणेभ्यस्य जीवो दानवेन्द्रश्चमरेन्द्रः शक्रपराभूतः स्वीकृतश्रीवीरशरणत्वेन प्राप्तसम्यक्त्वः सुसुमारपुरे स्थितस्य श्रीवीरस्याग्रे नाट्यं चकार ।
bodoodoodoodoodoodoooooooooooo
॥३३॥
PTI
For Private and Personal Use Only