________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥२६॥
www.kobatirth.org
अलद्वपुव्वं तु भवोयहिंमि, लहंति तित्थस्स पभावणाए ।
तित्थेसस्तं अमरिंदपुज्जं, दसारसीहो इव सेणिओ वा ||४७ ||
व्या०-'अलद्ध०' अलब्धपूर्वमेव भवोदधौ लभन्ते, जीवा इति शेषः । तीर्थस्य प्रभावनया तीर्थेश्वरत्वममरेन्द्रपूज्यम् । काविव ? दशार्हा:- समस्तयदुवंशपूज्याः समुद्रविजयाद्या दश भ्रातरस्तेषां कुले शौर्याद्यतिशयेन सिंहः । कृष्णस्य तीर्थ करत्वहेतुथावच्चपुत्रप्रव्रज्याप्रभावनावक्तव्यतायां नेमिचरित्राऽवतारोऽपि स्यात् । श्रेणिकचरित्रं तु श्रीवीरनमस्करणे प्रभावनायां सुज्ञातमेव ॥४७॥
चैत्यगमनद्वारमुपसंजिहीर्षुराह
'एवंविहाहिं वग्गूहिं, थुव्वंतो य पइदिणं ।
वच्चए जिणगेहंमि, जाव जिणबलाणयं ॥ ४८ ॥ दारं ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-' एवंविहा० ' अहो धन्नो इत्यादि वाग्भिः स्तूयमानश्च प्रतिदिनं व्रजति जिनगेहे यावज्जिनबलानक|मिति ॥ ४८ ॥ द्वारम् ७ ॥ अष्टमं सत्कारद्वारं । तत्र च जिनगृहप्रवेशे पञ्चविधाभिगममभिधित्सुः सूत्रद्वयमाह'पुप्फतंबोलमाईणि, सचित्ताणि विवज्जए । छत्तवाहणमाईणि, अचित्ताणि तहेव य ॥४९॥
For Private and Personal Use Only
सूत्रम्
॥२६॥