________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
व्या०-पुष्फतंबोल० 'पुष्पतम्बोलादीनि, आदिशब्दात् सिद्धार्थकदूर्वादीनि सचित्तानि, तथाऽचित्तानि छत्रवाह||२७|| || नादीन्यादिशब्दात् खड्गकिरीटचामरपादुकादीनि च विवर्जयेत् । चशब्दाच्छेषाभरणाद्यमोचनमुत्तरासङ्गं मनसः एकाग्रतां च विधत्ते ॥४९।।
काऊणं उत्तिमंगमि, अंजलिं भत्तिसंजुओ ।
भणई दिढे जिणिंदंमि, नमो भुवणबंधुणो ||५०॥ व्या०-'काऊणं०' कृत्वोत्तमाङ्गे-शिरस्यञ्जलिं- मुकुलितकरयुगलरूपं भक्तिसंयुतो भणति दृष्टे जिनेन्द्रे 'नमो भुवनबन्धवे' इति ||५०|| अथ प्रवेशविधिमाह
निस्सीहियं च काऊणं, अग्गे मज्झे तहेव य ।
बंधुमित्ताइसंजुत्तो, करे तिन्नि पयाहिणा ||५१।। व्या०-'निसीहि०' नैषेधिकीमेकां च कृत्वाग्रे- चैत्याग्रद्वारे, द्वितीयां मध्ये- जिनभवनस्यान्तः प्रदक्षिणाकरणकाले, तृतीयां तु गर्भगृहप्रवेशावसरे वक्ष्यति । यद्वैका नैषेधिकी गृहव्यापारनिषेधरूपा चैत्याद्यद्वारे, द्वितीया चैत्यव्यापारनिषेधरूपा गर्भगृहप्रवेशे, तृतीया 'तथैव चेति वचनात् द्रव्यपूजानिषेधरूपा चैत्यवन्दनावसरे ज्ञेया । ततो बन्धुमित्रादिसंयुक्तः कुर्यात् तिस्रः प्रदक्षिणाः । नैषेधिकीप्रदक्षिणात्रिकग्रहणाद दशापि त्रिकाण्यत्र दृष्टव्यानि ||५१||
प्रदक्षिणां नैषेधिकी च भावयन् सूत्रपञ्चकमाह
nobodootbodbodbooboobodoodhodhodhooshohos..
||२७||
bodoodoodbodoor
For Private and Personal Use Only