________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥२५॥
www.kobatirth.org
'तेलुक्कस्स पहुत्तं लद्धूणवि परिवडंति कालेणं । सम्मत्तं पुण लधुं अक्खयसुखं लहइ मुक्खं ||१||' तस्य लाभे इति शेषः । तेषां तु प्रशंसाकारिणां स एव प्रभावकः कारणं निमित्तम् । चतुशब्दाः पूरणे ॥ ४५ ॥
एतदेव सदृष्टान्तमाह
जत्तियगुणपडिवत्ती, सव्वन्नूमयंमि अविचला होइ । सच्चिय बीयं जायइ, बोहीए तेणनाएणं ॥४६॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-'जत्तियगुण० ́ यावती - यावन्मात्रा, गुणाः क्षान्त्यादयस्तत्प्रतिपत्तिरनुमत्यादिना स्वीकृतिः सर्वज्ञमते अविचला भवति, सैव बीजं जायते बोधेर्जिनधर्मप्राप्तेः स्तेनस्य ज्ञातेन दृष्टान्तेन । स चैवम्
कौशाम्ब्यां धनयक्षश्रेष्ठिनः क्रमाद्धर्मपालवस्तुपालौ, जने सम्यक् रुचित्वेनैकमनस्कतया ख्यातौ श्रीवीरसमवसरणे गतौ । तत्र धर्मपालो धर्मं श्रद्धत्ते नेतरः । अन्योन्यं विसंवादे जाते द्वितीये दिवसे श्रीवीरपार्श्वे पृष्टं धर्मपालेन, प्रत्युत्तरितं श्रीवीरेण । प्राक् भवे शालिग्रामे कुटुम्बिद्रङ्गिकस्य सुतौ निर्धनत्वादसम्प्राप्तभोगाङ्गौ युवां चौर्यं कृत्वा दण्डपाशिकत्रासितौ नश्यन्तौ महारण्ये तापनापरं मुनिं वीक्ष्यैको गुणप्रशंसां कुर्वन् बोधिबीजं प्राप नेतरः । तेनाधुनैवं विभाग इत्यर्थमवादीद्वीरः ॥४६॥
अथ दृष्टान्तद्वारेण प्रभावनाया: सर्वोत्तमं फलमाह
For Private and Personal Use Only
सूत्रम्
॥२५॥