________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||२४||
व्या०-'अहो ए०' अहो एतस्यात्रापि जन्मनि, एवोऽप्यर्थे, चैवो पूरणे, प्रसन्नको भगवान्नर्हन्नित्येवं सर्वसौख्याना-नरस्वर्गापवर्गशर्मणां दायक इति ।।४२।।
अन्नहा एरिसी रिद्धी, कहमेयस्स उत्तमा ।
रयणायरसेवाए हवंति, रयणवंतया ॥४३॥ व्या०-'अन्नहा०' अन्यथेति अर्हत्प्रसत्तिं विना ईदृग् ऋद्धिः कथमेतस्योत्तमा- त्यागादिगुणयुक्तत्वेन पुण्यानुबन्धिपुण्यहेतुत्वात् प्रधाना, सम्पन्नेति शेषः । मुख्यमर्थमन्वयेन समर्थयन्नाह- रत्नाकरसेवया भवन्ति रत्नवन्त इति ॥४३॥
एएण पुन्नवतेणं, अन्नजम्मंमि वाविओ।
पुन्नरुक्खो महाकाओ, सो इन्हिं फलिओ इमो ||४४|| व्या०-'एएण०' एतेन पुण्यवताऽन्यजन्मन्युप्तः पुण्यवृक्षो महाकायः, स इदानीं फलितोऽयमिति प्रत्यक्षोपलभ्यमानः सुखसम्पत्तिफलभारेणेति सूत्रषट्कार्थः ।। प्रभावनाफलमाह
एवं पसंसं पकुणंतयाणं, अणेगसत्ताण दुहाहयाणं ।
संमत्तरुक्खस्स महाफलस्स, तेसिं तु सो चेव य कारणं तु ॥४५॥ व्या०-'एवं पसंसं' एवमुक्तप्रकारेण तेषां प्रशंसां प्रकुर्वतामनेकसत्त्वानां दुःखाहतानां- दौर्गत्याद्यसाततप्तानां व सम्यक्त्ववृक्षस्य महत्-सर्वातिशायि मोक्षाख्यं फलं यस्यासौ महाफलः । यदुक्तम्
Tododoodoodhochochochochodbodbodbodoodkoochoodoodoor
||२४||
For Private and Personal Use Only