________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥२१॥
.
.
.
PPPPTET odoodoodoodoodoodoodoodoodoodoodoodoodo
कुर्वन् १६ । आलापकगणनार्थमङ्गली भुवौ वा चालयन् १७ । वारुणी-सुरा, तद्वत् बुडबुडयन् १८ । अनुप्रेक्षमाणो वानर इवौष्ठपुटं चालयन् १९ । कायोत्सर्गं करोतीत्येकोनविंशतिदोषाः । प्रायः सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह-'नाहित्ति नाभेरधश्चत्वार्यङ्गलानि चोलपट्टः । 'करयल 'त्ति दक्षिणेतरपाणिभ्यां मुखवस्त्रिका रजोहरणं च, कूर्पराभ्यां चोलपट्टश्च धरणीयः । उस्सारिते- पूरिते कायोत्सर्गे नमस्कारेण पारिते वन्द्यमानजिनस्तुतिभणनीया । इति गाथाद्वयार्थः ॥३४-३५।।
ततः स्तुतिदानानन्तरमस्यामेवावसर्पिण्यां ये भारतवर्षे तीर्थकृतोऽभूवंस्तेषामासन्नोपकारित्वेन नामोत्कीर्तनाय चतुर्विंशतिस्तवादिसूत्राणि जयवीयरायान्तानि । अथ पञ्चमद्वारमुपसंहरन् षष्ठं प्रत्याख्यानद्वारमाह
वंदित्ता थुइथुत्तेहिं, गिहबिंबाणि सावओ।
पच्चक्खाणं तओ गिण्हे, अप्पणो देवसक्खियं ||३६।। दारं ६ | व्या०-'वंदित्ता०' वन्दित्वा स्तुतिस्तोत्रैर्गृहबिम्बानि श्रावकः प्रत्याख्यानं ततो गृहणीयादात्मना देवसाक्षिकमिति ॥३६॥
इति 'नवकारेण विबोहो' इत्यादि द्वारषटकवर्णनं जातम । साम्प्रतं सप्तमं चैत्यगृहगमनद्वारम । तत्र तावत् तद्विधिं सूत्रद्वयेनाह
doooooooooooooooooooooooooooooooooooooooooooooooooooooo
||२१|
PTES bodbodboobot
For Private and Personal Use Only