________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥१९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काउण वत्थदेसेण, तओ वयणढक्कणं ।
जो मुद्दाइ भत्ती, समं सक्कत्थयं भणे ||३१||
व्या०-`पंचंगनमणं०' 'काउण०' नमस्कारपाठानन्तरं जानुद्वयकरद्वयशिरोलक्षणपञ्चाङ्गनमनपूर्वं, तुशब्दात्प्रतिलिख्य प्रमृज्य च भुवं, मूर्द्धानं धरणितले त्रीन् वारान्निवेश्य-संस्थाप्य वामं जानुं चाञ्चित्वा किंचिदुन्नम्य, ततश्च वस्त्रदेशेन वदनपिधानं कृत्वा योगमुद्रया भक्त्या
धन्नोहं जेण मए अणोरपारंमि भवसमुद्दमि । बुडुंतेण जिणिदो जं पत्तो जाणवत्तं व ||१||
इत्यादिरूपया आनन्दाश्रुपूर्णलोचनः सम्यगित्यस्खलितादिविधिना शक्रस्तवं प्रणिपातदण्डकं भणेदिति गाथाद्वयार्थः । नमुत्थुणमित्यादिरूपः स च दण्डकः ||३०-३१।।
तत उत्थाय स्थापनार्हद्वन्दनार्थं जिनमुद्रया चैत्यस्तवदण्डकं विधिवद्भणतीत्येतदेवाहविसिट्ठवन्ननासेणं, भाविंतो य पयं पयं ।
जिणनाहस बिंबंमि, दिन्नदिट्ठी सुहासओ ||३२||
व्या०-'विसिट्ठ०' विशिष्टवर्णन्यासेन व्यक्ताक्षरपदसम्पत्सत्यापनेन तथा भावयंश्च पदं पदमभ्युपगमाद्युपयोगपरः प्रतिपदमर्थं चिन्तयन् । तथा जिननाथस्य बिम्बे दत्तदृष्टिस्त्रिदिग्निरीक्षणनिषेधेनाधिकृतजिनबिम्ब एव न्यस्तदृक् । तथा शुभाशयो, निदानाद्यदूषितचित्तः । एवंविधगुणश्चैत्यस्तवनं पठतीति प्रक्रमाल्लभ्यते ||३२|| द्वितीयो दण्डकः ।
For Private and Personal Use Only
सूत्रम्
119811