________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० 1॥१८॥
hochందిందhocochodhochodoch.goodbod000000000000000000000bathod
अथ द्रव्यपूजानिगमनभावपूजां प्रस्तावयन्नाह
अडप्पयारपूयाए, पूइत्ता जगबंधवे ।
मुद्दाविहाणजुत्तेणं, कायचं जिणवंदणं ।।२९॥ व्या०-'अडप्प०' अष्टप्रकारपूजया पूजयित्वा जगद्बान्धवान् मुद्राविधानयुक्तेन-यथास्थानसत्यापितभाष्योक्तमुद्राविधिसमन्वितेन कर्तव्यं जिनवन्दनमिति चैत्यवन्दना । सा च त्रेधा
'नवकारेण जहन्ना, दंडगथुइजुगलमज्झिमा नेया | संपुन्ना उक्कोसा विहिणा खलु वंदणा तिविहा ||१||
'दंडगथुइजुगल'त्ति चैत्यस्तवदण्डकैकस्तुतिप्रदानयुगलरूपेति । अत्र च सम्प्रदायादुत्कृष्टचैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्येया । कायोत्सर्गे च चंदेसु निम्मलयरेत्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः । पारिते च समस्तोऽपि भणितव्यः । एवमीर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणतीति ।।२९।। साम्प्रतं प्रथमदण्डकभणनविधिं श्लोकद्वयेनाह
पंचंगनमणपुव्वं तु, मुद्धाणं धरणियले । तिन्नि वारे नियंसित्ता, वामं जाणुं च अंचिया ||३०।।
doodhodhodbodbocodbodbodbodbodbodoochochochochochocbodbodoosbodbook
||१८॥
For Private and Personal Use Only