________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8
सूत्रम्
श्राद्धदिन० ||१०||
व्या०-'जलणा० । 'मुत्तुंपि०'ज्वलनादिभये सर्वं कणकर्पासादिकं मुक्त्वा एकमपि यथा महारत्नं वैडूर्यादि, अथवाऽरिभये गृह्णात्यमोघशस्त्रं शक्त्यादि, यथा कश्चित् सकर्णविज्ञानस्तथेह मुक्त्वा द्वादशाङ्गं श्रुतकेवलिनापि स एव मरणे क्रियते- स्मर्यते यस्मादर्हन्नमस्कारः, उपलक्षणत्वात्सिद्धादिपरिग्रहः, तस्मात्स द्वादशाङ्गार्थो- द्वादशाङ्गरहस्यमिति । युग्मं ।।१३-१४॥ यैरस्य प्रणयनमकारि तेषां नमस्कारार्थमाह.
तप्पणईणं तम्हा, अणुसरियन्वो सुहेण चित्तेण ।
एसो व नमुक्कारो, कयन्नुयं मन्नमाणेणं ||१५|| व्या०-'तप्पणई०' तं नमस्कारं सूत्रादिरूपतया प्रणयन्ति- प्रकाशयन्तीत्येवं शीलास्तत्प्रणयिनः । यद्वा प्रणयनं प्रणयः- प्रकाशनं, तस्य प्रणयस्तत्प्रणयः, स विद्यते येषां ते तत्प्रणयिनोऽर्हद्गणभृदादयस्तेषाम् । तस्माद्धेतोरनुस्मर्तव्यो- ध्यातव्यः शुभेन चित्तेनैष एव नमस्कारः, कृतज्ञतां कृतार्थतां वात्मनो मन्यमानेनेति ।।१५।। उक्तार्थमुपसंहरन्नुपदेशमाह
नवकाराओ अन्नो, सारो मंतो न अस्थि तियलोए।
तम्हा हु अणुदिणं चिय, पढियब्बो परमभत्तीए ||१६|| व्या-'नवकार०' नमस्कारादन्यः सारो मन्त्रो नास्ति त्रैलोक्ये तस्माद्धेतोर्हः पूरणे, अनुदिनमेवायं पठितव्यः
ochండంతboobchooooooooooooooooooooooooooooooooooooooooood TTTTTTTTTTTTE
TITI
||१०||
For Private and Personal Use Only