________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन 1190911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इक्ताणि विवज्जयामि, कुंताइं सिल्लाइं वणिज्जयं च । कलहं च झंझं च चएमि निच्चं, सव्वाण पावाणमिमं खु मूलं ||३२३||
व्याख्या०-'इक्खूण जंताणि० ' इक्षूणां यन्त्राणि तथा कुन्तादि सेल्लादि वाणिज्यं च, उपलक्षणमेतदङ्गारगुप्तिपालकर्मादीनाम् । एषां पूर्वनिषिद्धानामपि पुनर्निषेधचिन्तनमतिपरिहार्यत्वख्यापनार्थमिति । कलहं चोच्चैः स्वरराटिं, झञ्झं च- केनचिदपराद्धे सकलमपि दिवसं तं प्रति कषायकलुषिततया यत् किञ्चिद्भणनं, तं च त्यजामि नित्यम् | यतः सर्वेषां पापानामैहिकामुष्मिकदुःखानामिदं खु- कलहादिकरणमेव मूलमाद्यं कारणम् । अत्र च निशी - | थोक्तौ दृष्टान्तौ । तौ चैवम्- कषायेषूत्पन्नेषु सति सामर्थ्ये उपशमनं कार्यम् । अन्यथा महाननर्थः । यथा
एकस्मिन्महत्यरण्ये बहुलवनराजीशोभितं सरः । तत्र च बहूनि जलचरखचराण्यासितानि । एकं च महद्धस्तियूथं वसति । अन्यदा उष्णकाले शीतलच्छायासु स्थिते हस्तियूथेऽदूरे द्वौ सरटौ युध्येताम् । वणदेवया एवं ते दिट्ठं सव्वेसिं सभासाए आघोसिअं । नागा ! जलवासीआ ! सुणेह तसथावरा ! सरडा जत्थ भंडंति अभाव परिई । इत्युक्तेऽपि सर्वैरवगणिते तयोरेकः सरटो भग्न उत्तानशयालुहस्तिनः शुण्डायां बिलमिति कृत्वा प्रविष्टः । द्वितीयोऽपि तत् पृष्ठौ तत्र प्रविष्टः । तत्रापि तौ युध्येताम् | हस्ती व्याकुलितः । सर्वं वनं तटाकपाल्यादि बभञ्जेति । किं चान्यत्
'आगाढे अहिगरणे, उवसम अवकढणा उ गुरुवयणं । उवसमह कुणह सज्झायं, छड्डणया सागपत्तेहिं ॥१॥’
For Private and Personal Use Only
सूत्रम्
1190911