________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1190211
www.kobatirth.org
एकः परिव्राजको द्रमकमर्थोपार्जनचिन्तनपरं पृष्टे दारिद्र्याभिभूत इत्युक्तवन्तमीश्वरं त्वां करोमीत्युक्त्वा सह गृहीत्वा पर्वतनिकुञ्ज प्रविष्टः । द्रमकस्तु गुरूपदेशेन शीतवातातपपरिश्रममगणयन् क्षुत्तृड्वेदनाः सहमानो ब्रह्मचारी अचित्तकन्दमूलपत्रपुष्पफलाहारी शमीपत्रपुटैर्भावतोऽरुष्यन् कनकरसं संचितवान् । तुम्बकं च भृतम् । मार्गे च परिव्राजकेन मत्प्रसादादीश्वरो भवसि त्वमिति पुनः पुनर्भण्यमानः स्वोपक्रमं विचिन्त्य रुष्टः । त्वत्प्रसादादीश्वरत्वेन न कार्यमिति शाकपत्रैस्तं रसं त्यजति । स च त्यजन् शाकपत्रैरेनं मा त्याक्षीः पश्चाच्छोचिष्यसि इति परिव्राजकेनोक्तः । एवं गुरुरपि कषायकारिणो भणति यूयं मा कलहयत । पश्चात् परितप्यथ । यथा-शमीपत्रोपमानुष्ठानैः संचिते संयमकनकरसे शाकपत्रोपमकषायै: "फरिसवयणेण दिन तवमित्याद्युक्तेर्निष्ठापिते शोच्यथेति ||३२३||
अथ संसारहेतून्निराकृत्य मोक्षस्मरणार्थमाह
Acharya Shri Kailassagarsuri Gyanmandir
किं मे कडं किंच मे किच्चसेस, किं सक्कणिज्जं न समायरामि ।
किं मे परो पासइ किं च अप्पा, किं वाहं खलियं न विवज्जयामि || ३२४||
व्याख्या-'किं मे कडं० ́ किं मयाद्य देवपूजादिकृत्यं कृतं । किं च मम जीर्णोद्धारादि कृत्यशेषं कर्तव्यशेषमुचितं वर्तते । किं शक्यं तपः पठनादि न समाचरामि । किं मम स्खलितं निष्ठुरभाषणादिकं परः साधर्मिकादिः पश्यति - जानाति । किं चात्मा क्वचित्संवेगापन्नः पश्यति । किं चाहं स्खलितम् -
'माओ उ मुणिदेहिं भणिओ अट्ठभेयओ । अन्नाणं १ संसओ चेव २ मिच्छानाणं तहेव य ३ ||१||
For Private and Personal Use Only
सूत्रम्
1196211