________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1194911
www.kobatirth.org
'वन्दारुवृन्दारकवृन्दवन्यैः सेव्यो मुनीन्द्रैरपि सर्वकालम् । सदैहिकामुष्मिकसौख्यदायी, तद्धर्मचिन्तामणिरेष नव्यः ॥ इति
तथायं धर्मोऽपूर्वमक्षय्यसर्वसौख्यसन्दोहजनकत्वान्निधानमिव निधानम् । यथा
यज्जन्माग्रकुले यदेतदरुजं देहं भवेद्देहिनाम् । विष्वग् यच्च सुधांशुधामधवलं स्फूर्जत्यनल्पं यशः । यत्स्यात् केशवसार्वभौमकमला यन्निर्वृतिस्वः सुखं, अक्षय्यस्य सदापि धर्मसुनिधेस्तन्नूनमुज्जृंमितम् ||१||’ इति ॥ २८४ ॥
धम्म बंधू सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गे पट्टणं, धम्मो परमसंदणो ॥ २८५ ॥
व्याख्या- 'धम्मो०' अयं धर्मोऽपूर्वः सर्वदा हितविधायित्वाद्बन्धुरिव बन्धुर्यथानिः कृत्रिम सर्वजनानुकूलः, सदाप्यभीष्टार्थविधानधाता ।
अतो जिनेन्द्रोदितधर्ममेनं नवीनबन्धुं प्रवदन्ति तज्ज्ञाः ॥१।’
तथायं धर्मः समस्तापत्समूहनिवारकत्वेन समस्तसम्पत्तिसम्पादकत्वादपूर्वं सुमित्रम् । यथा
'आपत्कलापोद्दलनेन शश्चत्सम्पत्तिसम्पादनबद्धकक्षः ।
प्रेत्यापि जीवेन सहानुगामी, तद्धर्म एवाभिनवं मित्रं ||१||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
1194911