________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१५||
सूत्रम्
Pooooooooooooooooooooo
स्तैर्विषमविषसमविषयसुखलवलिप्सुभिरनन्तशिवसुखसुधारसास्वादपराङ्मुखतयात्मैव वञ्चितः । उक्तं च
'लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणिं दृणाति । सच्चन्दनं प्लोषति भस्मनेऽसौ,यो मानुषत्वं नयतीन्द्रियार्थे ।।१।। इति सूत्राष्टकार्थ इति ।।२८२।। एवं धर्मे स्वजनानां स्थिरीकरणमाधाय सम्प्रति धर्ममेवोपमानैः स्तुवन् सूत्रचतुष्टयमाह
जिणधम्मो हु लोगंमि, अपुवो कप्पपायवो ।
सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ||२८३।। व्याख्या-'जिणधम्मो०' जिनधर्म एव जीवानामपूर्वः कल्पपादपः । कुत इत्याह-'सग्गापवग्गसुक्खा०' अत्र लक्षणशब्दाध्याहारात् स्वर्गापवर्गसौख्यलक्षणानां फलानां दायको यतोऽयमिति । यथा'संकल्पनातीतमनुष्यदेव-निर्वाणसत्सौख्यफलप्रदायी । सनातनो नो परतन्त्रवृत्तिः, तद्धर्मकल्पगुरपूर्व एषः ।१।।२८३।।
अहवा चिंतामणि एसो, सव्वत्थ सुखदायगो ।
निहाणं सबसुक्खाणं, धम्मो सबन्नुदेसिओ ॥२८४।। व्याख्या-'अहवा०' । पूर्वोपमानोपेक्षयोपमानान्तरसूचकोऽपूर्व इति पदं यथायोगमनुवर्तनीयम् । ततश्चायं धर्मः P8 सर्वज्ञदेशितोऽपूर्वचिन्तामणिः । कस्मादिति विशेषणद्वारेण हेतुमाह-सर्वत्र, इहलोके परलोके च सुखदायकत्वात् यथा- |
ooooooooooooooooooooooooooooooooo
||१५०||
odha
For Private and Personal Use Only