________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1192611
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| आद्यं पर्यायनाम व्याख्यातम् १ | एवं शेषाण्यपि ज्ञेयानि । तद्यथा मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिति २ । तथार्थतो ध्रुवत्वाच्छाश्वतत्वाद् ध्रुवम् ३ । निगृह्यन्ते इन्द्रियकषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वात् ध्रुवं कर्म तन्निगृह्यतेऽनेनेति ध्रुवनिग्रह इत्येकमेवेदं पर्यायनाम व्याचक्षते ४ । कर्ममलिनस्यामनो विशुद्धिहेतुत्वाद्विशुद्धिः ५ । सामायिकादि षड्ध्ययनात्मकत्वादध्ययनषट्कम् ६ । वृजीण् वर्जने, वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्ज्यः । अन्ये तु षडध्ययनकलापात्मकत्वादध्ययनषड्वर्ग इत्येवमप्येकमेव पर्यायनाम ब्रुवते ७ । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वान्न्यायः । अथवा जीवकर्मसम्बन्धापनयनान्न्यायः ८ । मोक्षाराधनहेतुत्वादाराधना ९ । मोक्षपुरप्रापकत्वान्मार्ग इव मार्गः १० || २४० ||
प्रतिक्रमणस्थानानि दर्शयन्नाह
तं तु पोसहसालाए, घरे वा जिणमंदिरे ।
साहूणं पायमूलंमि, करेई जह संभव || २४१ ||
व्याख्या-'तं तु पोस०' उक्तार्था । नवरं तं तुत्ति तत्पुनरावश्यकं दैवसिकादि पञ्चप्रकारम् । तद्विस्तरो वृत्तितोऽवसेयः || २४१ || आवश्यककरणे विधिशेषमाह
For Private and Personal Use Only
सूत्रम्
1192011