________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ||१२८||
www.kobatirth.org
आवस्सयं करेमाणो, अट्टमट्टं न चिंतए ।
उवउत्तो सुत्तत्थे, अइयारेसु तहेव य ॥ २४२॥ द्वारं १९
व्याख्या- 'आवस्सयं०' आवश्यकं षड्विधमपि कुर्वन् आर्तम्- आर्तध्यानं न चिन्तयेत् । स्वल्पस्य त्वशक्यपरिहार्यत्वात्तस्यापि मिथ्यादुष्कृतं दद्यात् । उपयुक्तश्च सूत्रार्थयोर्विशेषेणातिचारेष्वतिचारपदेषु सुष्टूपयुक्तस्तथैव चेति उक्तः करणविधिः ॥२४२॥ द्वारम् १९ ।
साम्प्रतं यतिविश्रामणाद्वारमुल्लङ्घ्य
Acharya Shri Kailassagarsuri Gyanmandir
सज्झाएण पसत्थं, ज्झाणं जाणइ य सव्वपरमत्थं । सज्झाए वड्ढतो खणे खणे जाइ वेरग्गं ||१|| तथा 'कम्ममसंखिज्जभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरंमि वि जोगे सज्झायंमि विसेसेणं ||२||' |इत्याद्यनेकगुणहेतुत्वात् प्राधान्यख्यापनार्थमावश्यकद्वारानन्तरं स्वाध्यायद्वारं विवृण्वन्नाह
आवस्सयं तु काऊणं, सज्झायं च तहेव य ।
तओ य पुच्छे सुत्तत्थे, गुरुणो गुणसायरे ॥२४३॥
व्याख्या-'आवस्सयं० ́ अवश्यकरणादावश्यकं कृत्वैव स्वाध्यायं स्वप्रज्ञानुसारेण पूर्वाधीतकर्मग्रन्थादिपरावर्तनरूपं शीलाङ्गस्थनमस्कारांवलिकादिगुणनरूपं वा । ततश्च पृच्छेत् सूत्रार्थौ यौ गुणयता नावबुद्धौ गुरून् गुणसागरान्- ज्ञानादिगुणगणमणिसमुद्रानिति ॥ २४३॥ अधुना श्लोकपूर्वार्धेन यतिविश्रामणाख्यैकविंशद्वारव्याख्यानपूर्वकमुत्त
For Private and Personal Use Only
सूत्रम्
||१२८||