________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१२६॥
ATTTTTTTTTTTT ochoochochochoochochochochoodoodoochochockoochodbi
समणेण सावएण य, अवस्स कायव्वयं हवइ जम्हा ।
अंतो अहोनिसिस्स, तम्हा आवस्सयं नाम ||२३९।। व्याख्या-'समणेण०' श्रमणेन श्रावकेन, चशब्दात् श्रमणीश्राविकाणां चावश्यं कर्तव्यं भवति । 'जम्हा० यस्मात् 'अन्तो अहो०' अहोरात्रमध्ये, सन्ध्याद्वय इत्यर्थः, तस्मादावश्यकमिति निरुक्तं नाम भवतीति शेषः ।।२३९।। आवश्यकस्यैवानुयोगद्वारोक्तानि पर्यायनामान्याह
आवस्सयं १ अवस्सकरणिज्जं, २ धुव ३ निग्गहो ४ विसोही ५ य ।
अज्झयणछक्क ६ वग्गो ७ नाओ ८ आराहणा ९ मग्गो १० ॥२४०।। व्याख्या-'आवस्सयं०' एतानि दश पर्यायनामानि । तत्रावश्यक प्रथमं पर्यायनाम गाथाद्वयेन व्याख्यायते'जदवस्सं कायव्वं, तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो, आमज्जायाभिविहिवाई ||१|| आवासं वा जीवं, करेइ जं नाणदंसणगुणाणं । संनिज्झभावणाछायं, णेहि वावस्सयं गुणओ ।।२।।
यद्-यस्मादवश्यं कर्तव्यं तेन- तस्मादावश्यकमिदं समणेणं सावएणमित्यादिगाथायाः पर्यवसितार्थकथनमेव । अथवा मर्यादयाऽभिविधिना वा गुणानामाश्रय आधार इदमित्यर्थः । यद्वा ज्ञानादिगुणानामासमन्ताद्वश्यकमात्मानं करोतीत्यावश्यकम् । अथवा वस निवास इति गुणशून्यमात्मानं गुणैरासमन्ताद्वासयति गुणसान्निध्यमात्मनः करोतीत्यावसिकं । अथवा यथा वस्त्रं वासधूपादयस्तथा गुणैरासमन्तदात्मानं वासयति भावयति रञ्जयतीत्यावश्यकमिति ।
bodoodboobooboobooboo booboo boobooooooooooooooooooooooooooooooooooooc
TTTTTTTT
॥१२६॥
For Private and Personal Use Only