________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1192411
www.kobatirth.org
विरताविरतः प्रतिक्रामतु इतरस्य तु किं प्रतिक्रमणेन ? ग्रामाभावे सीमाकरणवत् । उच्यते-नातिचाराणामेव प्रतिक्रमणम्, किन्तु चतुर्षु स्थानेषु इत्यत आह
पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥ २३७॥
व्याख्या-'पडिसिद्धाणं०' प्रतिषिद्धानि विदितयथावस्थितभवस्वभावस्य श्रावकस्य यथा- न कर्तव्यं कुलवधूनां वेश्यागृहगमनमिव परतीर्थगमनं । निरोद्धव्या दुरन्ताः कषायाः । वर्जनीयः स्थूलप्राणातिपाताद्याश्रवः । परिहर्तव्यो मधुमद्यादिपरिभोगः । इत्यादीनां निषिद्धानां करणे । तथा कृत्यानां 'नवकारेण विबोहे 'त्यादि शास्त्रोक्तानामकरणे प्रतिक्रमणम् । तथा अश्रद्धाने जिनोक्तभावानां विप्रत्यये । चः समुच्चये । तथा विपरीतप्ररूपणायां च यथाएकान्ततो वस्त्वनित्यं नित्यं वा द्रव्यमेव पर्याया एव वेत्यादिकायां प्रतिक्रमणं भवतीति ॥ २३७॥ पूर्वोक्तार्थं सविशेषं सूत्रकृदेवाह
आइन्नं अणवज्जं च, गीयत्थाणं सुसंमयं । अणुओमि, तथा वायगभासिए ||२३८||
व्याख्या. आइन्नं अण०' सुगमः ||२३८ || अनुयोगद्वारोक्तं दर्शयन्नाह -
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
||१२५ ॥