________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1192811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावज्जजोगपरिवज्जणट्ठा, सामाइयं केवलियं पसत्थं ।
गिहत्यधम्मा परमंति नच्चा, कुज्जा बुहो आयहियं परत्था ॥ २३४ ॥
व्याख्या- 'सावज्ज०' सावद्ययोगपरिवर्जनार्थं सामायिकं कैवलिकं प्रतिपूर्ण प्रशस्तं पवित्रं, एतदेव गृहस्थधर्मात्परमं- प्रधानमिति ज्ञात्वा कुर्याद् बुधो- विद्वान् आत्महितं- आत्मोपकारकं परार्थमिति, परो मोक्षस्तदर्थं, न तु सुरलोकावाप्त्यर्थम् । अनेन निदानपरिहारमाह ॥२३४॥
जो समोसव्वभूएसु, तसेसुं थावरेसु अ ।
तस्स सामाइअं होइ, इइ केवलिभासिअं ||२३५ ॥
प्रसङ्गागतसाधुसामायिकमुपदिष्टमिदानीं तु कृतसामायिकः सन् प्रतिक्रमण- वेलायामावश्यकं करोतीत्येतदेवाहसंमत्तमाइयाणं, अइयाराणं विसोहणं ।
आवस्सयं च कायव्वं, सड्ढेणं तु दिणे दिणे ॥२३६॥
व्याख्या-'सम्मत्तमा०' सम्यक्त्वादीनामादिशब्दादणुव्रतादीनां अतीचाराणां चतुर्विंशशतसंख्यानां विशोधनं| विशुद्धिकारकं षड्विधमावश्यकं पूर्वाचार्यपरम्परायातं, चशब्दान्निरतिचारेणापि तृतीयवैद्यौषधकल्पं कर्त्तव्यं करणीयं श्राद्धेन विरतेन । तुशब्दादभ्यासाद्यर्थं यथाभद्रकेणापि । दिने दिने प्रतिदिवसमुभयसन्ध्यमिति ॥ २३५।२३६ ॥ ननु
For Private and Personal Use Only
सूत्रम्
||१२४||