________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||११७॥
सूत्रम्
oooooooooooooooooooooo
व्याख्या-'पेससुण्हा०' गतार्था ||२२३।। अत्रैव विधिशेषमाह
अणंतकायं बहुबीयवत्थु, तुच्छोसहिं चेव विवज्जिऊणं ।
विगईण दव्वाण य काउ संखं, भुजेइ तत्तो समयाविरुद्धं ||२२४।। व्याख्या-'अणंतकाय०'अनन्तानामपर्यन्तानां साधारणजन्तूनां कायो देहोऽनन्तकायः कन्दादिवनस्पतिविशेषः । तथा 'बहुबीजवस्तु-' पिंपोटरिङ्गणादिद्रव्यम् । उपलक्षणत्वाच्छेषाऽभक्ष्यद्रव्याणां परिग्रहः । तथा तुच्छाऽसारा ओषधयः कोमलमुद्गादिशम्ब्यः । ता अपि अतृप्तिहेतुत्वात् बहुसावद्यत्वाच्च विवाः । तथा विकृतीनां पारिशेष्यन्यायाद्रक्ष्याणां दुग्धादीनां दिनगतप्रत्याख्यानान्तःसंक्षिप्तानाम् । तथा द्रव्याणां- सचित्ताचित्तादिनां संख्यां कृत्वा- स्वनियमितवस्तूपयोगरूपां, ततो भुङ्क्ते । कथमित्याह-'समयाविरुद्धमि'ति । समये- सिद्धान्ते यज्जन्तुमिअफलपुष्पपत्रसंयुक्तसन्धानादिकं विरुद्धं यथा न भवति तथाभ्यवहरतीति ॥२२४|| द्वारं १५ ।
सुसम्प्रदायादिति सद्विधेयप्रस्तावो मध्याह्नकृत्यानुगतो गृहस्थधर्मप्रथायां दिनकृत्यवृत्तौ प्रथितः । अथ षोडशद्वारं विवृण्वन्नाह
देवं गुरुं च वंदित्ता, काउं संवरणं तहा । अंतिये साहूमाईणं, कुज्जा सज्झायमुत्तमं ॥२२५।।
||११७॥
సం000000
For Private and Personal Use Only