________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
व्याख्या-'देवं गुरुं०' चैत्यवन्दनया देवान् वन्दनेन गुरुं च वन्दित्वा कृत्वा च संवरणं-दिवसचरिमग्रन्थिसहि||११८।। 8 तादि वा प्रत्याख्यानं । द्वारं १६ । ततः साध्वादीनां- गीतार्थयतीना- आदिशब्दात् प्रवचनकुशल श्राद्धसिद्धपुत्रादीना
मन्तिके- समीपे कुर्यात् स्वाध्याय- वाचनापृच्छनापरावर्तनाधर्मकथानुप्रेक्षालक्षणम् । तत्र निर्जरार्थं यथायोग्यं सूत्रादिदानं ग्रहणं च वाचना ।। तस्मिंश्च शङ्किते गुरोः प्रच्छनं प्रच्छना २ । पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्थमभ्यासः परावर्तना ३ । जम्बूस्वाम्यादिस्थविरचरितस्याकर्णनं कथनं वा धर्मकथा ४ । मनसैव सूत्रादेरनुस्मरणमनुप्रेक्षा ५ । पञ्चविधोऽप्ययं तत्त्वादिपरिज्ञानगोचरः ।।२२५|| अन्नं च- आउट्टि थूलहिंसाइ, मज्जमसाइचायओ | जहन्नो सावओ होइ, जो नमुक्कारधारओ ||१||
धम्मजोग्गगुणाइन्नो, उक्कोसो बारसबओ । गिहत्थो य सयायारो, सावगो होइ मज्झिमो ||२|| सम्प्रत्यागमश्रवणफलभूतमुत्सर्गविधिं प्रचिकटिषयाह.
उस्सग्गेणं तु सड्ढो उ, सचित्ताहारवज्जओ ।
इक्कासणगभोई य, बंभयारी तहेव य ||२२६।। व्याख्या-'उस्सग्गेण०' उत्सर्गेण पुनर्यथोक्तकारितया श्राद्धः सचित्ताहारवर्जकः । तदशक्तस्तु तत्कृतपरिमाणोऽपि स्यात् । यदुक्तम्
၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀
TTTTTTTTTT rochodbacbodbodooooooooooo0000000000
Kothochotjodbothochodbobodbodbodbodbodbor
||११८॥
For Private and Personal Use Only