________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥११०॥
सूत्रम्
ET PPTTTTTTTTTA rooooooooooooooooooooooooo00000000000000000000000000000000000000000
व्याख्या-'सारणा वारणा०' विस्मृतस्य धर्मकृत्यस्य ज्ञापनं स्मारणा १ । तथा कुसंसर्गाद्यकृत्यस्य निषेधनं वारणा २ । एतयोश्च सततं क्रियमाणयोरपि कस्यचित्प्रमादबहुलस्य नियमस्खलनादौ युक्तं किमीक्कुलोत्पन्नस्य तवेत्थं प्रवर्तितुमित्यादिवाक्यैः सोपालम्भं प्रेरणं नोदना ३ । तथा तत्रैवासकृत् स्खलितादौ धिग् ते जन्मजीवितमित्यादिनिष्ठुरवाक्यैः गाढतरप्रेरणा प्रतिनोदना ४ । उक्तं च
'पम्हढे सारणा वुत्ता, अणायारस्स वारणा ।
चुक्काणं चोयणा होइ, निट्ठरं पडिचोयणत्ति ||१|| एताश्च सुश्रावकेणापि दातव्याः, न केवलं साधुनैवेत्यपिशब्दार्थः । केषामित्याह-श्रावकाणां हितार्थाय-उभयलोकसुखावहाप्रमादाय । श्रावकाणामित्यत्र बहुवचनं दुःषमादोषेण प्रमादपरप्राचुर्यख्यापनार्थमिति ।।२१०|| यस्त्वप्रीतिभयात्साधर्मिकमुपेक्षते तं प्रतीदमाह
रूसउ वा परो मा वा, विसं वा परियत्तउ ।
भासियदा हिया भासा, सपक्खगणकारिया ।।२११।। व्याख्या-'रूसउ वा० स्मारणादौ क्रियमाणे कश्चिद्रुष्यतु- रोषं वा विदधातु पर :- आत्मव्यतिरिक्तः, कश्चिच्च सहिष्णुतया वा मा रौषीत् । कस्यचिद् गुरुकर्मणः स्मारणादिकं विषमिवोद्वेगकृत् भूत्वा परावर्तेत । तथाप्यनुग्रहबुद्ध्या भाषितव्या हिता- तिक्ताद्यौषधपानवत्सद्यो मिथ्यात्वगदपरिहारसुन्दरा भाषा- स्मारणादिलक्षणा, कीदृशा ? स्वपक्षगुणकारिका-प्रमादपरिहारेण धर्मकायस्योपचयादिगणविधात्री ।।२११।।
ooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo
||११०||
T
For Private and Personal Use Only