________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
11908 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'वत्थन्नपाणासण०' अक्षरार्थ: सुगमः, नवरमन्नमिति दुर्भिक्षादौ धान्यमिति सूत्रषट्कार्थः । भरतदृष्टान्तो वृत्तितोऽवसेयः ॥ २०७॥ वात्सल्यमेव राजग्रहाद्यापदुद्धरणरूपं सदृष्टान्तमाहवज्जाउहस्स रामेणं, जहा वच्छल्लयं कयं ।
सत्ति अणुरूवंतु, तहा वच्छल्लयं करे ॥२०८॥
व्याख्या- 'वज्जाउह०' | अक्षरार्थः सुगमः । भावार्थस्तु ज्ञातगम्यस्तद्वृत्तितोऽवसेयः ॥२०८॥ साम्प्रतं द्रव्यवात्सल्यमुपसंहरन् भाववात्सल्यमुपदिशन्नाह
साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं ।
धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए || २०९ ||
व्याख्या-'साहम्मियाण०' साधर्मिकाणां वात्सल्यमिति वात्सल्यमेतदनन्तरोक्तम् । तथा अन्यदिति भाववात्सल्यं व्याख्यातमागमे एतदिति, किं तदित्याह धर्मस्थानेषु पूजानुष्ठानादिकृत्येषु सीदन्तं- प्रमाद्यन्तं, श्रावकमिति प्रक्रमाद् गम्यम्, सर्वभावेन- सर्वोद्यमेन नोदयेत् - स्मारणादिभिः शिक्षयेदिति ॥ २०९ ॥ ता एवाह
भणियं च
सारणा वारणा चेव चोयणा पडिचोयणा ।
·
सावएणावि दायव्वा, सावयाणं हियट्ठया ||२१०॥
For Private and Personal Use Only
सूत्रम्
॥१०९ ॥