________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ।।९८॥
कत्थ मरुत्थलीसु कप्पपायवो, मायंगगेहे मत्तअइरावणो ।
दारिद्दगेहे य हिरन्नवुट्ठी, तिमिस्स गहाए रयणप्पईवो ||१८७|| व्याख्या-'कत्थ मरु०' मरुत्थलित्ति लुप्तसप्तम्येकवचनत्वात्मरुस्थल्या प्रचण्डचण्डांशुकरनिकरसम्पर्कस-4 न्तापमर्मुरायमानसिकताकणानुकृततप्तकवल्याम्, बदरीकरीरप्रमुखाधमभूमीरुहैरपि रहितसमस्तभूप्रदेशावल्यां, कुत्रानल्पसंकल्पसन्दोहसम्पादनसमर्थः, प्रतिहतरौद्रदारिद्यमुद्रातपः सुरकल्पपादपः । तथा पतितातिबीभत्सगन्धसम्बन्धोद्धरमृतगोकलेवरादिसमूहे मातङ्गगेहे कुत्र देवराजीविराजमानदेवराजसभालङ्करणप्रवणः समुदितो मत्त ऐरावणः । तथा धान्यभरासम्पूर्णजठरपिठरत्वेन कलहायमानदुर्दान्तडिम्भसन्दोहे दरिद्रगेहे कुतः कृतनयनमनस्तुष्टिः सुवर्णवृष्टिः । तथा गुरुतरतिमिरभरेण पदार्थसार्थावलोकनासहायां तिमिस्रगुहायां कुत्र देदीप्यमानसमस्तसमीपः सुष्टुरत्नप्रदीपः । अयमात्राशयः-यथा मरुस्थल्यादिस्थानेष्वसंभावनीयशुभपदार्थप्रादुर्भावेषु कदाचन गुरुतरभाग्यसंभारलभ्या अपि सुरपादपादयो प्रादुर्भवन्ति ॥१८७।। आह तथा
कत्थ एयारिसो साहू, कत्थ अम्हारिसत्ति चिंतए ।
ता धन्नो सुकयत्थो हं, पूरा मज्झ मणोरहा ||१८८॥ व्याख्या-'कत्थ एयारिसा साहू कत्थ अम्हारिसत्ति' सूत्रपदं । कुत्र एतादृशाः स्वर्गापवर्गप्रगुणगुणमणिधरणसमुद्राः साधवः, कुत्रास्माशास्तथाविधवरेण्यपुण्यपुण्यविकला इति ।।१८८।। परं यदेताशैरपि संयोगः समजनि
book
90000000booooooo
॥९८॥
For Private and Personal Use Only