________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥९५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादश वत्सरा गताः । क्रमेण चतसृणां पुत्रा जाताः । एकदा वृद्धया तासां प्रोक्तं- 'युष्माकं चत्वारः सुता बभूवुः, अथासौ यतः स्थानादानीतस्तत्रैव मुच्यतां, पुरुषस्य विश्वासो न युक्तः ' । वधूभिरनिष्टमपि तद्भयेन प्रतिपन्नं । | ताभिस्तामेव खट्वां सज्जीकृत्य शायितः, स्नेहतो रत्नानि मध्ये क्षिप्त्वा मोदकाश्चत्वारस्तदञ्चले बद्धाः । ततस्तस्मिन्नेव दिने स्थाने च स एव सार्थपोऽवततार । तमागतं विज्ञाय पूर्वप्रियया तत्रागत्य विलोकितं पूर्वरूपेण सुप्तः | पतिर्दृष्टस्तावता जागरितः सपुत्रां स्वपत्नीं ददर्श, सोऽचिन्तयच्च - 'स्वप्नवत्किमिदमहो महदाश्चर्यं ! देवेन मनुष्येण वाऽत्र मुक्तः’ । ततः पत्नीवाक्येन स्वगृहे समागतः । तया प्रोक्तं-परदेशे गत्वा किमुपार्जितं ?' लज्जितः स मौनं दधौ । ततः पुत्राय स मोदको दत्तः । तेन लेखशालायां गत्वा भक्षितः, तन्मध्याद्रत्नं निर्गतं, केनचित्कान्दविकेन तज्जलकान्तं शिशोर्हस्ते दृष्टं । स्वादिमेन तं विप्रतार्य गृहीत्वा गुप्तीकृतं । कृतपुण्योऽपि स्वमोदकतो रत्ननिर्गमनेन सहर्षो बभूव । अथैकस्मिन्दिने श्रेणिकस्य सेचनको हस्ती गंगामध्ये जलं पिबंस्तन्तुजीवेन गृहीतः । सेवकमुखेन तद्वा
For Private and Personal Use Only
सूत्रम्
| ज्ञात्वा नृपेणाभयाय प्रोक्तं । तेन बुद्धिमता कोशागारे जलकान्तो विलोकितोऽपि न लब्धः, तदा पुरे पटहो दापितः 'यः | कश्चिज्जलकान्तमणिमानेष्यति, तस्मै राज्यार्द्धयुतां स्वपुत्रीं राजा दास्यति । तदा कान्दविकेन पटहं गृहीत्वा मणिर्नृपाय दत्तः । स जलकान्तो गजपार्श्वे मुक्तः, तेन तज्जलं द्विधाभूतं तन्तुजीवो नष्टः, सेचनकारूढो नृपः स्वगृहमागत्याभयं रहस्यवक्-'आत्मनः पुत्री कान्दविकस्य कथं दास्यते ?' । सोऽवक्- 'यस्येदं रत्नं तं नरं प्रकटीकरिष्यामि । ततो मान्त्रणा पृष्टं भोः कान्दविक ! सत्यं ब्रूहि, क्वेदं रत्नं लब्धं, अन्यथा कम्बादिना निमीलनमवाप्स्यसि । तदा ॥९५॥