________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥८६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवदत्ता पणाङ्गनासशी, गुणागुणविदग्रणीर्वर्तते । एवमुक्ते सति पृष्ठेऽचालीत् । तावता मुष्टिनाहत्य पृष्ठे तां कुब्जीं स सज्जीचकार । देवदत्तापि तं वृत्तान्तं विज्ञाय सविस्मया वरासनप्रदानादि स्वागतं तस्य व्यधात् । तदा वीणां वादयन् तत्रायातो वेणिकः । देवदत्ताऽवदत्- अविकला भव्या कला तव वर्तते । अथ वामनः किञ्चिद्वास्यं विधाय स्माह- कीदृश उज्जयिनीजनो भव्यः श्रुतः, सम्प्रति (कीदृशो ) दृश्यमानोऽस्ति । तयोक्तम्- कुतः ? सोऽवदत् सगर्भेयं वीणा । ततस्तां पाणिनादाय तन्त्रीगर्भगतं कचं कृष्ट्वा दर्शयामास । ततो वीणानादेन रञ्जिता चिन्तयति खेचरः किन्नरो वा गायनः इति । ततः कृताञ्जलिसप्रश्रयं साऽभ्यधात्- 'स्वामिन् सद्यः स्वं रूपं दर्शय' । ततः स्वाभाविकं रूपं चक्रे तेन । समग्रगुणनिधान ! तवागमनेनानुग्राह्याहं प्रत्यहं ' इत्यवदद्देवदत्ता । तेन तथैव विदधे । मूलदेवो द्यूतव्यसनदूषितो सर्वं हारयामास । पश्चाद्गणिकया प्रोक्तम् 'स्वामिन् द्यूतं मुञ्च' । परं सोऽपि मोक्तुं न क्षमः । पश्चात् तस्या अग्रेऽक्कया प्रोक्तम्- `धूर्तं निःस्वं मूलदेवं मुञ्च । अचलं निश्चलं स्वान्तं धनैर्धनदसंनिभं भज' । साख्यन्न द्रव्यरक्ताहं किन्तु गुणानुरागिणी, तेनैतां वार्तां मुञ्च । परीक्षार्थमिक्षुदण्डग्रहणार्थमक्काचलपार्श्वे चेटीं प्रैषीत् । अचलपार्श्वे गत्वा तयोक्तं । तेन इक्षुदण्डभृतं शकटं प्रेषितं । तद् द्यष्ट्वा तयोक्तम्- 'हे अम्बाऽहं किं हस्तिनी' । तथैव मूलदेवोऽपि याचितः । स तु सरसा सरला आदावन्ते च ताश्छित्त्वा निस्त्वचीकृत्याङ्गुलमानखण्डानि कृत्वा तथैवैलाद्यैर्वासयित्वा मल्लकस|म्पुटे क्षिप्त्वा देवदत्ताकृते प्रैषीत्तद् दृष्ट्वा साप्यवोचत्- 'मातर्निः स्वस्यापि विवेकं पश्य । तेन नातः परं वदेः । अक्काऽप्यूचे हे पुत्रि ? ते एष एव पतिर्भद्रङ्करो भवति । अथान्यदा नाटकेन नृपं चमत्कार्य देवदत्तया वरो न्यासीकृतः । ततः
For Private and Personal Use Only
सूत्रम्
॥८६॥