________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २४२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
I
राजसूः ॥ ३५ ॥ शबरा कुचिरे सौस्थ्ये । क्रियतेऽनिग्रहाग्रहः ॥ सांप्रतं प्राणसंदेहे | देव - तुमर्हसि || ३६ || जीवतां नियमा यस्मा - प्रविष्यति मुहुर्मुहुः || सधैर्यमुक्तं तेनापि । न वक्तव्यमिदं यतः ॥ ३७ ॥ प्रयातु प्रलयं लक्ष्मी- यतु प्राणा अपि कयं ॥ वचसा प्रतिपन्नं तु | स्थिरं भवतु केवलं ॥ ३८ ॥ सर्वेऽपि नक्षयित्वा ते । तानि स्वैरमशेरत ॥ दासस्त्वेकः कुमारस्य । दाक्षिण्येन न भुक्तवान् || ३ ||
शयित्वा जजागार | निशीथे कुमरस्ततः ॥ नवाप्य नृत्यमित्यूचे । सर्वान् जागरय डुतं ॥ ४० ॥ यावापिताः सर्वे । नोत्तिष्टंति कथंचन ॥ तावता मुखमुद्राट्य | सर्वे दृष्टाः परासवः ॥ ४१ ॥ निवेदितं कुमारस्य । सोऽपि श्रुत्वा सविस्मयं ॥ समं हर्षविषादाभ्यां । खऊहस्तस्ततोऽचलत् ॥ ४२ ॥ गतो गेहे कपाटस्य । बिदे दीपप्रज्ञानरैः ॥ सुप्तां सह नरेणेक्ष्य | निजजायां चुकोप च ||४३|| तत प्राकृष्य निस्त्रिंशं । प्रविष्टो मंदिरांतरे ॥ जिघांसुरुजयं यावत्प्रहर्त्तुमुपचक्रमे ॥ ४४ ॥ तावता नियमं स्मृत्वा । सप्तपादानि सत्वरं । पश्चाघ्यावृत्तमानस्य । द्वारे खशेोऽनिघट्टितः ॥ ४५ ॥ खटत्कारेण खस्य । वंकचूला विनिश्तिा
For Private And Personal
वृत्ति
॥ २४२ ॥