________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
2525TSSISTESSES252STS
इतः श्रीदो धनी प्राह पुत्रीं प्रत्यन्यदा स्फुटम् । त्वां परिणीय जामाता जगाम किं करिष्यते ॥ ३८॥ पुत्री प्राह पितर्भार-पट्टे स्वकीयसद्मनः । लिखिनाऽस्त्यक्षरश्रेणी जामात्रा गच्छता तव ॥३९॥ वाचयित्वाऽनरश्रेणी जगाद सुरसुन्दरी । श्रीपुरेऽस्ति पतिर्भीमनामा मम पितर्वरः ॥ ४०॥ तेन विश्राणयाऽऽदेशं मह्यं तत्र प्रयाम्यहम् । पिताऽऽचष्ट न ने पुत्रि ! गमनं युज्यते तव ॥४१॥ आदौ तत्र तव भ्राता-गत्वोपलक्ष्यते पतिम् । आयात्यत्र ततो गच्छेस्त्वमपि स्वेशसन्निधौ ॥ ४२ ॥ एकाकिन्या स्त्रियः स्वेच्छं गच्छन्त्या दूरनीवृति । शोभा भवति नो याति, प्रतिष्ठा स्वयमेव च ॥ ४३ ॥ विचार्येति तदा श्रीदः स्वं पुत्रं चन्द्रनामकम् । प्रेषयामास जामातु: शुद्धिं ज्ञातुं कृतत्वरः ॥४४॥ चन्द्रोऽब्धिवर्त्मना गत्वा श्रीपुरे भीमसद्मनि । मिलितो भीमगेहिन्योः सन्नमस्कृतिपूर्वकम् ॥ ४५ ॥ चन्द्रोऽप्राक्षीत् व ते कान्तो जगामाऽत्र निवेद्यताम् । ताभ्यामुक्तं तवेदानी कि कार्य विद्यते वद ॥ ४६॥ चन्द्रस्ततो जगौ स्वीया-गमनोदन्तमादितः । सपत्नीभ्रातरं ज्ञात्वा ताभ्यामुक्तं छलात् तदा ॥ ४७ ।। भूरि-लक्ष्मी समादाय व्यवसायायाऽन्यनीवृति । भवतो भगिनीकान्तश्चलितोऽस्ति परेऽहनि ॥४८॥ ततस्ताभ्यां विशिष्टान्न-पानदानविधानतः । चन्द्रो भ्राताऽऽदरेणेव भोजितो मुदितोऽभवत् ॥ ४९ ॥ ताभ्यामचे भवद्यामि-पतिर्दूरे गतोऽस्ति हि । तेन मासा लगिष्यन्ति बहवस्तत्र तस्य हि ॥५० ।।
ET252G25252SSUESTSESC
॥७६॥
For Private and Personal Use Only