________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
11:55 11
525252
12525255252
www.kobatirth.org
भवतो भगिनीकान्तो यदेष्यत्यत्र पत्तने । तदा तत्र समेत्येव ( त्वेव ) नेतुं तु सुरसुन्दरीम् ॥ ५१ ॥ चन्द्रो दध्याविदं काष्ठ पञ्जरं शुकभासुरम् । नीयते चेत् पुरे स्वीये भगिन्याः स्यात्तदा च मुद् ॥ ५२ ॥ ततचन्द्रो रहः काष्ठपञ्जरं शुकभासुरम् । नीत्वा निजपुरे स्वीये भगिन्यै दत्तवान् द्रुतम् ॥ ५३ ॥ रमयन्ती शुकेनामा स्वमनः सुरसुन्दरी । समयं गमयामास बहु पितुर्गृहे स्थिता ॥ ५४ ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
एकदा मूलिकां कीर-पक्षमध्यस्थितां वराम् । दृष्ट्वा सुरसुन्दर्याssशु छोटयामास यावता ॥ ५५ ॥ तावदाविरभूत् कान्तस्त्यक्त्वा शुकत्वमञ्जसा । तदा श्रीदसुता हृष्टा मातृपितृयुताऽभवत् ॥ ५६ ॥ तया समं सदा भोगान् भुञ्जानो भीमनैगमः । श्वसुरस्य गृहे कालं गमयामास भूरिशः ॥ ५७ ॥ अन्यदा रहसि प्राह श्रीदपुत्री पतिं प्रति । श्वसुरस्य गृहे शोभा न स्यात् पुंसः स्थितस्य हि ॥ ५८ ॥ * यतः - "उत्तमा स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः श्वसुरैश्वाधमाधमाः ॥ ५९ ॥ क भीमोsवग् भो ! प्रिये पत्न्यौ द्वे स्तो मम गृहे पुरा । कौटिल्य कुशले तेन गन्तुं तत्र स्पृहा न मे ॥ ६० ॥ सुरसुन्दर्यवक कान्त ! पुरुषैर्नैव कर्हिचित् । कातर्य क्रियते तस्मात् त्वमत्र साहसं कुरु ।। ६१ ।।
" अपमानं पुरस्कृत्य मानं कृत्वाऽद्य पृष्ठतः । कार्यमुद्धरते प्राज्ञः कार्यभ्रंशो हि मूर्खता ॥ ६२ ॥ 5 * दोषेणैकेन न त्याज्यः सेवकः सद्गुणोधिपैः । धूमदोषभयाद्वह्निर्नहि केनाप्यपास्यते ॥ ६३ ॥
For Private and Personal Use Only
125525525252525252525252
|| 66 ||