________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजज्य कल्पवृ०
॥ ५१ ॥
252525252525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* " वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइ वि न पज्जत्तधणो थोवावि हु थोवयं देइ " ॥ १ ॥ राजा राज्येऽभिषिच्य स्वं नन्दनं सूरिसन्निधौ । प्रव्रज्यामग्रहीत् मुक्ति-सुखसंपत्तये क्रमात् ॥ १३ ॥ मरुदेवनृपो न्याया- दपालीज्जनतां तथा । यथाऽभूत् सुखिनी बाढं धर्म्मकर्म्मणि कर्म्मठा ॥ १४ ॥ * यतः- “ राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्त्तन्ते यथा राजा तथा प्रजा " ॥१५॥ मरुदेवनृपस्याsभून् नन्दनश्चन्दनाभिधः । धर्मकर्मरतोऽकार्षीद् जिनाच च दिवानिशम् ॥ १६ ॥ जिनधर्मरतं भूप- सूनुं वीक्ष्य प्रजाऽपि च । जैनधर्म वितन्वन्ति कल्याणसातहेतवे ।। १७ ।
मरुदेवः सुतं राज्ये विन्यस्य संयमश्रियम् । लात्वा गुर्वन्तिकेऽपाठीद् भूरि शास्त्राणि यत्नतः ॥ १८ ॥ मरुदेवं विनीतं च सर्वशास्त्राब्धिपारगम् । मत्वा सूरिपदं सूरिददौ शोभनवासरे ।। १९ । क्रमात् पञ्चशती वाचंयमानां शुद्धचेतसाम् । सेवते मरुदेवस्य सूरीशस्य पदाम्बुजम् ॥ २० ॥ क्रमेण विहरमाणो मरुदेवो यतीश्वरः । तीर्थे शत्रुञ्जये देवान् नन्तुं साधुयुतो ययौ ॥ २१ ॥ तस्मिंस्तीर्थे शुभध्यानान्मरुदेवो यतीश्वरः । प्रापाssदौ केवलज्ञानं ततोऽन्येऽपि यतीश्वराः || २२ || प्रबोध्य भूरिशो जीवान् मरुदेवो यतीश्वरः । सिद्धशैले ययौ मुक्ति-मन्येऽपि भूरिसाधवः ॥ २३ ॥ शिवप्राप्तिः पितुः श्रुत्वा तस्मिन् सिद्धमहीधरे । चन्दनक्ष्मापतिर्भूरि- सङ्घयुक् चलितोऽध्वनि ॥ २४ ॥
For Private and Personal Use Only
1525575572552557525252555:
॥ ५१ ॥