________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
गत्वा शत्रजये पूजां कृत्वा स्तुत्वाऽर्हतः पुनः । पितुर्मुक्तिगमस्थाने प्रासादं चन्दनो व्यधात् ।। २५ ॥
पितुर्मुक्तिगमस्थानं मत्वा शत्रुञ्जये गिरौ । मरुदेवेति तीर्थस्य तस्य नाम ददौ नृपः ॥ २६ ॥ शत्रुञ्जय कल्पवन चन्दनक्ष्मापतिस्तीर्थ-पूजां कृत्वाऽतिविस्तरात् । स्वपुरेऽभ्येत्य सस्मार शश्वच्छत्रुञ्जयं गिरिम् ॥ २७ ॥ .
चन्दनोऽपि स्मरन् नित्यं तीर्थ शत्रुञ्जयं हृदि । स्वपुरस्थोऽपि सम्प्राप्य ज्ञानं मुक्तिपुरी ययौ ॥ २८ ॥
॥५२॥
2SSZESEISPSESS212SASES
॥ श्री भगीरथनामोपरि सगरचक्रिपुत्रभगीरथकथा ॥ सगरक्षोणीनाथस्य पुत्रो भगीरथाभिधः । यात्रां कृत्वा निजं नाम तीर्थस्याऽदाद् वरोत्सवम् ॥१॥ अयोध्यानगरे चक्री द्वितीयः सगरोऽजनि । सूनु भगीरथो नाम्ना तस्याऽऽद्योऽजनि रूपवान् ॥२॥ अन्येऽभूवन सुताः षष्टि-सहस्रप्रमिता वराः । तस्यैव चक्रिणोऽशेष-विद्याम्भोनिधिपारगाः ॥३॥ सगरश्चक्रिराट् तीर्थ-माहात्म्यमजितान्ति के । श्रुत्वा श्रीआदिदेवस्य सद्म स्फारमकारयत् ॥ ४ ॥ मेलयित्वा बहुँ सङ्घ सगरश्चक्रिराट्र क्रमात् । शत्रजयादितीर्थेषु यात्रां विस्तरतो व्यधात् ॥५॥ भगीरथोऽन्यदा यात्रा कर्त शत्रञ्जये गतः । सङ्घशः सर्वकृत्यानि विधिवद्विदधेतराम् ॥ ६ ॥
WESETISSESCSCSISZTASZ
For Private and Personal Use Only